सामग्री पर जाएँ

लाक्षातैल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लाक्षातैलम् क्ली, (लाक्षादिभिः पक्वं तैलम् ।) पक्वतैलविशेषः । लाक्षादितैलमिति ख्यातम् । तद्द्विविधं स्वल्पं बृहच्च । यथाक्रमं तत्प्रकारं तद्गुणञ्चाह । “लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचितम् । सद्गुणेनारनालेन दाहशीतज्वरापहम् ॥” इति स्वल्पलाक्षातैलम् ॥ बृहद्यथा, -- “लाक्षारसाढके प्रस्थं तैलस्य विपचेद्भिषक् । मस्त्वाढकसमायुक्तं पिष्ट्वा चात्र समावपेत् ॥ शतपुष्पां हरिद्राञ्च मूर्व्वां कुष्ठं हरेणुकाम् । कटुकां मधुकां रास्नामश्वगन्धाञ्च दारु च ॥ मुस्तकं चन्दनञ्चैव पृथगक्षसमानकैः । द्रव्यैरेतैश्च तत् सिद्धं अभ्यङ्गान्मारुतापहम् ॥ विषमाख्यान् ज्वरान् सर्व्वानाश्वेव प्रशमं नयेत् । कासं श्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम् ॥ त्रिकपृष्ठग्रहं शूलं गात्राणां स्फुटनन्तथा । पापालक्ष्मीप्रशमनं सर्व्वग्रहनिवारणम् । अश्विभ्यां निर्म्मितं सम्यक् तैलं लाक्षादिकं महत ॥” इति बृहल्लाक्षातैलम् । इति मुखबोधः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लाक्षातैल/ लाक्षा--तैल n. a particular medicinal oil L.

"https://sa.wiktionary.org/w/index.php?title=लाक्षातैल&oldid=227639" इत्यस्माद् प्रतिप्राप्तम्