लाक्षादितैल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लाक्षादितैल¦ न॰ लाक्षादिभिः पक्वं तैलम् शा॰ त॰। वैद्यकप्र-सिद्धे तैलभेदे तच्च द्विविधं स्वल्पं वृहच्चेतिभेदात् तत्र स्वल्पंयथा
“लाक्षा हरिद्रा मञ्जिष्ठाकल्कैस्तैलं विपाचितम्। [Page4825-a+ 38] तद्गुणेनारनालेन दाहशीतज्वरापहम्”। वृहत् यथा
“लाक्षारसाढके प्रस्थं तैलस्य विपचेत् भिषक्। मस्त्वा-ढकसमायुक्तं पिष्ट्वा चात्र समावपेत्। शतपुष्पांहरिद्राञ्च मूर्वां कुष्ठं हरेणुकाम्। कटुकां मधुकांरास्नामश्वगन्धाञ्च दारु च। मुस्तकं चन्दनं चैव पृथगक्ष-समानकैः। द्रव्यैरेतैश्च संसिद्धमभ्यङ्गात् मारुतापहम्। विषमाख्यान् ज्वरान् सर्वानाश्वेवं प्रशमं नयेत्। कासंश्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम्। त्रिकपृष्ठ-ग्रहं शूलं गात्राणां स्फुटनं तथा। पापालक्ष्मीप्रशमनंसर्वग्रहनिवारणम्। अश्विभ्यां निर्मितं सम्यक् तैलंलाक्षादिकं महत्” मुखबोधः।
