सामग्री पर जाएँ

लाङ्गलं

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लाङ्गलं¦ तत् प्रवक्ष्यामि यत्काष्ठं यत्{??}माणतः। हलीशाया-स्तथा मानं प्रतोदस्य युगस्य च। चत्वारिंशत्तथाचाष्टा-वङ्गुलानि कुहः (हलः) स्मृतः। अथापामोऽङ्गुलैर्भाज्योहलीशावेधतश्च यः। षोडशैव तु तस्याधः षड्विंशतिरथोपरि। वेधस्तथा च कर्त्तव्यः प्रमाणेन षडङ्गुलः। अष्टाङ्गुलमुरस्तस्य वेधादूर्द्ध्वं प्रकल्पयेत्। ग्रीवा दशा-ङ्गुला चोर्द्ध्वं हस्तग्राहो ततः स्मृतः। अङ्गुलैश्चाष्ट-भिस्तत् स्याद्वेधः स्यात् प्रतिहारकः। तस्यावस्ता-द्यच्चत्वारि स वेधश्चतुरङ्गुलः। प्रतिहारी शुभाकार्य्या तद्वेधस्त्र्यङ्गुलो भवेत्। पञ्चाङ्गुलमुरस्तस्याः सी-रस्येति विभाजनम्। पृथुत्वं शिरसोधार्य्यं हस्ततल-प्रमाणकम्। अङ्गुलानि तया चाष्टौ उरसः पृथुतास्मृता। बन्ध द्बहिः प्रतीहारी षड्त्रिंशदङ्गुला भवेत्। सुतीक्ष्णा लोहपाल्यस्य उक्ता दामादिदारकृत्। न सीरंक्षीरवृक्षस्य न विल्वपिचुमर्दयोः। इत्यादीनां हि कुर्वाणोन नन्दति चिरं गृही। प्राञ्जला सप्तहस्ता तु हलीशाविदुषां मता। तस्याः(ईशायाः)वेधः सवर्णायाः कार्य्योनव-वितस्तिभिः। प्लक्षाक्षयोर्न तत्कुर्य्यात् कीर्तिघ्नौ तौ प्रकी-र्तितौ। प्रमादतस्तु ताः कुर्वन् सशस्यो नश्यते गृही। नीचोच्चवृषमानेन तजज्ञास्तां प्रवदन्ति हि। चतुर्हस्तंयुगं कार्य्यं स्कन्धस्थानेऽर्धचन्द्रवत्। मेषशृङ्ग्याः कद-म्बस्य सालधवद्रुमस्य च। सम्या (सां पि)वेधाद्बहिः कार्य्यादशाङ्गुलप्रमाणिका। तन्माने च प्रबाली च तदन्तरदशा-ङ्गुलम्। प्रतोदविषमग्रन्थि र्वैणवश्च चतुःकरः। तदग्रेतु प्रकर्त्तव्या यवाकारा तु लोहवत्। हीनातिरिक्तंकर्त्तव्यं नैव किञ्चित्प्रमाणतः। कुर्य्यादनडुहां दैन्या-ददैन्यान्नरकं व्रजेत्। यथाऽभीष्टं यथाशोभं बाहकस्यप्रमाणतः। भूमेश्च कर्षणायालं तज्ज्ञाः सर्वं वदन्तिहि। योजन तु हलस्याथ प्रवक्ष्यामि यथा तथा। श्रेष्ठनक्षत्रसंयुक्ते पुण्येऽह्नि तद्विधीयते। यत्र दिनेतु बुध्येत तत्र कार्य्यं विजानता। यत्र कृत्यं हितंचापि पुण्यं वा मनसि स्मरेत्। तत्र विद्वान् द्विजश्रेष्ठःपुण्येऽह्नि तद्विधीयते। मातृश्राद्धं द्विजः कृत्वा यथो-[Page2203-b+ 38] क्तविधिना गृही। द्रव्यकालानुसारेण कुर्वतो धर्म्म-तः कृषिम्। प्रोल्लिखन् मण्डलं पुष्पधूपदीपैः समर्चयेत्। इन्द्राय च तथाश्विभ्यां मरुद्भ्यश्च तथा द्विजः। कुर्य्या-द्बलिहृतिं विद्वान् उदकसञ्चयाय च। तथा कुमार्य्यैसीतायै अनुमत्यै तथा बलिम्। नमः स्वाहेति मन्त्रेणसंवाञ्छन्नात्मनः शुभम्। दधिगन्धाक्षतैः पुष्पैः शमीपत्रै-स्तिलैस्तथा। दद्याद्बलिं वृषाणाञ्च तथाज्यप्राशनं ततः। संघृष्य सीरफालाग्रे हेम्ना वा राजतेन वा। प्रलिप्यमधुसर्पिभ्यां कुर्य्याच्चैव प्रदक्षिणम्। अग्न्युक्ष्णोर्मण्डलंकुर्य्यात् कृत्वा सीरप्रवाहणम्। पुष्पं लाङ्गलकल्याणंकल्याणाय नमोऽस्त्विति। सीतायाः स्थापनं कुर्य्यात्पाराशरमृषिं स्मरन्। सीतां युञ्जत इत्याद्यैर्मन्त्रैः सीरंप्रवाहयेत्। दधिदूर्वाक्षतैः पुष्पैः शमीपत्रैश्च पुण्यदैः। सीतां पूज्य वशी भक्तैरक्तवस्त्रैर्विषाणके। सप्त धा-न्यानि चादाय प्रोक्ष्य पूर्वामुखो हली। तानि दत्त्वो-क्षणः क्षेत्रे किरन् भूमीं कृषेद्विजः। न यवैर्नतिलैर्हीनं द्विजः कुर्य्याच्च कर्षणम्। तद्विहीनन्तुकुर्वाणं न प्रशंसन्ति देवताः। तिलमात्रच्युतंतोयं दक्षिणस्याम्पतेर्दिशि। तेन तृप्यन्ति पितरो या-वन्न तिलविक्रयः। विक्रीणीते तिलान् यस्तु तर्पये-न्नर्षिदेवताः। विमुच्य पितरस्तन्तु प्रयान्तीव तिलैःसह। ऊषाजलं यवस्तम्बपत्रेभ्यो भूतले पतत्। पयो-दधिघृताद्यैस्तु तर्पयेत् सर्व्वदेवताः। देवपर्ज्यन्यभू-सीरयोगात् कृषिः प्रजायते। व्यापारात् पुरुषस्यापितस्मात्तत्रोद्यतो भवेत्। शालीन् सशणकार्पासं वार्त्ता-कुप्रभृतीनि च। वापयेत्सर्व्ववीजानि सर्ववापी न सी-दति। चन्द्रक्षये पतिर्विप्रो यो युनक्ति वृषान् क्वचित्। तत्पञ्चदशवर्षाणि त्यजन्ति पितरो हि तम्। चन्द्रक्षयेद्विजो विद्वान् यो भुङ्क्ते तु पराशनम्। भोक्तुर्मासा-र्जितं पुण्यं भवेदशनमस्य तत्। चन्द्रार्कयोस्तु संयोगेकुर्य्याद्यः स्त्रीनिषेवणम्। सरेतोभोजिनस्तस्य षण्मासंपितरोऽहिताः। चन्द्रक्षये च यः कुर्य्यान्नरस्तरुनिकृन्त-नम्। तत्पर्णसङ्ख्यया तस्य भवन्ति भ्रूणहत्यकाः। वनस्पतिगते सोमे योऽप्यध्वानं व्रजेन्नरः। प्रभ्रष्टद्विज-कर्म्माणं तं त्थजन्त्यमरादयः। वासांसीन्दुप्रणाशोयोरजकस्यामतिः क्षिपेत्। पिबन्ति पितरस्तस्य मासं व-स्त्रजलन्तु तत्। सोमक्षये द्विजो याति यत्कालस्तु हुता-शनम्। तदेव पितृशापाग्निदग्धो नरकमाविशेत्। [Page2204-a+ 38] अष्टमी कामभोगेन, षष्ठी तैलोपभोगतः। कुहूस्तु दन्त-काष्ठेन हिनस्त्यासप्तमं कुलम्। चन्द्राप्रतीतौः पुरुषस्तुदैवादद्यादगत्या यदि दन्तकाष्ठम्। नराधिराजैः सहि-तस्तु तेन घातः कृतः स्यात्पितृदेवतानाम्। तत्राभ्यज्यविषाणानि गावश्चैव वृषास्तथा। चरणाय विसृज्यन्तेआगतान्निशि भोजयेन्। य उत्पाद्येह शस्यानि सर्वा-णि तृणचारिणः। जगत्सर्व्वं धृतं यैस्तु पूज्यन्ते किन्नते वृषाः। येनैकेन प्रदत्तेन दत्तं गोदशकम्भवेत्। य-द्रूपेण स्थितो धर्म्मः पूज्यन्ते किन्न ते वृषाः। पाल्या-हि यत्नतस्ते वै वाहनीया यथाविधि। स याति नरकंघोरं यो वाहयत्यपालयन्। नाधिकाङ्गो न हीनाङ्गःपुष्पिताङ्गो न दूषितः। वाहनीयो हि शूद्रेण वाह-यन् क्षयमाप्नुयात्। वर्जयेद्दुष्टदोषांश्च गावो वै दोहनेनरः। पाल्या वै यत्नतः सर्व्वे पालयन् शुभमाप्नु-यात्। अन्नार्थमेतानुक्षाणः ससर्ज परमेश्वरः। अन्ने-नाप्यायते सर्व्वं त्रैलीक्यं सचराचरम्। अग्निर्ज्वलतिचान्नार्थं वाति चान्नाय मारुतः। गृह्णाति चाम्भसांसूर्य्यो रसानन्नाय रश्मिभिः। अन्नं प्राणो बलं चान्नमन्नाज्जीवितमुच्यते। अन्नं सर्व्वस्य चाधारः सर्व्वमन्ने प्रतिष्ठितम्। सुरादीनां हि सर्व्वेषामन्नं वीजंपरं स्थितम्। तस्मादन्नात्परं तत्त्वं न भूतं न भविष्यति। ट्यौः पुमान्, धरणी नारी, अम्मोवीजन्दिवश्च्युतम्। द्यु-धात्रीतोयसंयोगादन्नादीनां हि सम्भवः। आपोमूलंहि सर्व्वस्य सर्वमप सु प्रतिष्ठितम्। अतोऽमृतरसा ह्यापआपः शुक्रं बलं महः। सर्व्वस्य वीजमापो वै सर्वमद्भिः समावृतम्। सद्य आप्यायना ह्यापः आपोज्येष्ठतरा ह्यतः। किञ्चित्कालं विनाऽन्नाद्यैर्जीवन्तिमनुजादयः। न जीवन्ति विना तास्तु तस्मादापीऽमृतंस्मृतम्। दत्तानि चाद्भिरेतस्यां किं न दत्तं क्षितौ भवेत्। तथान्नेन प्रदत्तेन सर्वं दत्तं भवेदिह। अतोऽप्यन्नार्थ-भावेन कर्त्तव्यं कर्षणं द्विजः। यथोक्तेन विधानेन ला-ङ्गलादिप्रयोजनम्। सीते! सौम्ये! कुमारि! त्वंदेवि! देवार्चिते! श्रिये। सत्कृता हि यथा सिद्धा यथा{??}मे सिद्धिदा भव। मरुत्सूनोर्विना नाम्ना सीतायाःस्थापनं विना। विनाभ्युक्षणरक्षार्थं सर्वं हरति रा-क्षसः। वापने लवने क्षेत्रे खले गन्त्रीप्रवाहणे। ऐषएव विधिर्ज्ञेयो धान्यानाञ्च प्रवेशने। देवतायतनो-द्याननिपातस्थानगोव्रजान्। सीमाश्मशानभूमिञ्च घृक्ष-[Page2204-b+ 38] च्छायाक्षितिं तथा। भूमिं निखातयूपाञ्च अयन-स्थानमेव च। अन्यामपि हि चावाह्यां न कर्षेत्कृषिकृत् धराम्। नोषरां वाहयेद्भूमिं वर्चाश्मक-र्करीवृताम्। वाहयन्नप्रमत्तश्च न नदीपुलिनं तथा। यद्यसौ वाहयेल्लोभात् द्वेषाद्वापि हि मानवः। क्षीयते सोऽचिरात्पापात् सपुत्रपशुबान्धवः। नरकं घोरतामिस्रंपापीयान् याति चैनसा। परकीयां योऽपहृत्य कृषि-कृद्वाहयेद्धराम्। स भूमिस्थेन पापेन ह्यनन्तनरकंवसेत्। न दूरे वाहयेत् क्षेत्रं नचैवात्यन्तिके तथा। वाहयेन्न पथि क्षेत्रं वाहयन्दुःखभाग् भवेत्। क्षेत्रेष्वेवंवृतिं कुर्य्यात् यामुष्ट्रो नावलोकयेत्। न लङ्घयेत्पशु-र्यां वा नाभीयाद्याञ्च शूकरः। बन्धश्च यत्नतः कार्य्योमृगयुत्रासनाय च। अत्राप्युपद्रवं राजतस्करादि-समुद्भवम्। संरक्षेत्सर्वतो यत्नाद्यस्मात् गृह्णात्यसौ क-रात्। कृषिकृन्मानवस्त्वेवं मत्वा धर्म्मं कृषेर्ध्रुवम्। अनवद्यां शुभां स्निग्धां जलावगाहनक्षमाम्। निम्नांहि वाहयेद्भूमिं यत्र विश्रमते जलम्। वाहयेत्तुजलाभ्यर्णे पुष्टे ससेकसम्भवे। शारदमुच्चकैःस्थाने क-लम्बं वापयेद्धली। अर्धाप्तकासु कार्पासं तदन्यत्र तुहैमनम्। वसन्तग्रीष्मकालीयमप्सु स्निग्धेषु तद्विदः। केदारेषु तथा शालीन् जलोपान्तेषु चेक्षवः। वृन्ताकशा-कमूलानि कन्दानि च जलान्तिके। वृष्टिविश्रान्तपानीय-क्षेत्रेषु च यवादिकान्। गोधूमांश्च मसूरांश्च खल्वान्खलु कुलत्थकाः। समस्निग्धेषु चोप्यानि भूमीजीवान्निजानता। तिला बहुविधाश्चोप्या अतसीशणमेवच। मृदम्बुजं जगत्सर्वं वापयेत्कृषिकृन्नरः। संप-श्येच्चरतः सर्वान् गोवृषादीन् स्वयङ्गृही। चिन्तयेत्स-र्वमात्मानं स्वयमेव कृषिं व्रजेत्। प्रथमं कृषिबाणिज्यंद्वितीयं योनिषोषणम्। तृतीयं विक्रयः प्रोक्तश्चतुर्थंराजसेवनम्। नखैर्विलिखने यस्याः ब्रूयुर्दोषं म-नीषिणः। तस्याः सीरविदारेण किन्न पापं क्षितेर्भवेत्। तृणैकच्छेदमात्रेण प्रोच्यते क्षयमायुषः। असङ्ख्य-कन्दनिर्वासादसङ्ख्यातम्भवेदघम्। यत्सेचनात् कीटवधस्तथा सङ्कर्षणादपि। अंहः कुक्वुटिकानाञ्च तदंहः कृ-षिजीविनाम्। बधकानाञ्च यत्पापं यत्पापं मृगयो-रपि। कदर्य्याणाञ्च तत्पापं तत्पापं कृषिजीविनाम्। वर्णानाञ्च गृहस्थानां कृषिवृत्त्युपजीविनाम्। तदेनसोविशुद्ध्यर्थं प्राह सत्यवतीपतिः। द्वादशो नवमो वापि[Page2205-a+ 38] सप्तमः पञ्चमोऽपि वा। धान्यभागः प्रदातव्यो देहिनःक्षेत्रिणा ध्रुवम्। अश्मर्य्यद्यूतभूमौ च विट्पतिः क्षेत्र-भुग्भवेत्। एकैकांशापकर्म्म स्याद्यावद्दशमसप्तमौ। ग्रामेशस्य नृपस्यापि वर्ण्णिभिः कृषिजीविभिः। स सभागः प्रदातव्यो यतस्तौ कृषिभागिनौ। व्यूढौ त्वश्व्यर्य्यमात्राया देयोंऽशः स्याच्चतुर्द्दशः। एकैकांशापकर्म्म स्यात् यावद्दशमसप्तमौ। ब्राह्मणस्तु कृषिं कुर्वन्वाह-येदिच्छया धराम्। न किञ्चित् कस्यचिद्दद्यात्स सर्वस्य प्रभु-र्य्यतः। ब्रह्मा वै ब्राह्मणानां स्यात्प्रभुस्त्वसृजदादितः। तद्रक्षणाय बाहुभ्यामसृजत् क्षत्रियानपि। पशुपाल्या-शनोत्पत्त्यै ऊरुभ्याञ्च तथा विशः। द्विजदास्याय प-ण्याय पद्भ्यां शूद्रमकल्पपत्। यत्किञ्चिज्जगतीसस्थंभूगेहाश्च गजादिकम्। स्वभावेनेह विप्राणां ब्रह्मास्वयमकल्पयत्। ब्राह्मणश्चैव राजा च द्वावप्येतौ धृ-तव्रतौ। न तयोरन्तरं किञ्चित्प्रजा धर्म्मेण रक्षयेत्। तस्मान्न ब्राह्मणो दद्यात् कुर्वाणो धर्मतः कृषिम्। ग्रामेशस्य नृपस्यापि किञ्चिन्मात्रमसौ बलिम्। अथा-न्यत्सम्प्रवक्ष्यामि कृषिकृच्छुद्धिकारणम्। संशुद्धः कर्ष-कोयेन स्वर्गलोकमवाप्नुयात्। सर्वसत्वोपकाराय सर्वत्रकृषिकृन्नरः। कुर्य्यात् कृषिं प्रयत्नेन सर्वसत्वोपजीव्यकृत्। सर्वस्य स्थितिकारुण्यात्स देवपितृभिः पुनः। मनुष्याणान्तुपोव्याय कृषिं कुर्य्यात् कृषीबलः। वयांसि चान्यसत्वानिक्षुत्तृष्णातो विमोचयन्। विमुक्तः सर्वपापेभ्यः स्कर्लोक-स्तमवाप्नुयात्। चतुर्दिक्षु खले कुर्य्यात्प्राच्यामतिघनावृ-तिम्। सैकद्वारपिधानञ्च पिदध्याच्चैव सर्वतः। खरोष्ट्राजो-रणादोंस्तु विशतस्तु निवारयेत्। शूकरान् श्वशृगालादिका-कोलूककपोतकान्। त्रिसन्ध्यं प्रोक्षणं कुर्य्यात् दानीया-भ्युक्षणाम्बुभिः। रक्षा च भस्मना कुर्य्याज्जलधारा-भिरक्षणम्। त्रिसन्ध्यमर्चयेत्सीतां पराशरमृषिं स्म-रन्। प्रेतभूतादिनामानि न वदेच्च तदग्रतः। सू-तिकागृहवत्तत्र कर्त्तव्यं परिरक्षणम्। हरन्त्यरक्षितंयस्मात् रक्षांसि सर्वमेव हि। प्रशस्तोदिनपूर्वाह्णोनापराह्णेन सन्ध्ययोः। धान्योन्मानं सदा कुर्यात्सीता-पूजनपूर्वकम्। यजेत खलभिक्षाभिः खलेरोहिण्यएवहि। भक्त्या सर्वं प्रदत्तं हि तत्समस्तमिहाक्षयम्। खलयज्ञाः पक्षिणां वै ब्रह्मणा निर्मिताः पुरा। भाग-धेयमथो कृत्वा तां गृह्लन्तीह मात्रिकाम्। शतकृत्वा-दयो देवाः पितरः सोमपादयः। सनकादिमनुष्याश्च ये-[Page2205-b+ 38] चान्ये दक्षिणाशनाः। तानुद्दिश्य च विप्रेभ्यो दद्याच्चप्रथमं हली। विवाहे स्वलयज्ञे च संक्रान्तौ ग्रह-णेषु च। पुत्रे जाते व्यतीपाते दत्तं भवति चाक्ष-यम्। अन्येषामर्थिनां पश्वात्कारुकाणा पुनः पुनः। दीनानामप्यनाथानां कुष्ठिनां कुशरीरिणाम्। क्लीवा-न्धवधिरादीनां सर्वेषामपि दीयते। वर्णानां पतिता-नाञ्च द्युदृग्भूतानि तर्पयेत्। चाण्डालानां श्वपाकानांप्रीत्यात्थुच्चावचा ददत्। ये केचिदागतास्तत्र पूज्यास्तेविधिवद्द्विजाः। स्तोकशः सीरिमिः सर्वे वर्णिभिर्गृह-मेधिभिः। दत्त्वा त्वनृतया वाचा क्रमेणाथ विसर्जयेत्। तत्कृत्वा स्वगृहं गच्छेच्छ्राद्धमभ्युदयं चरेत्। शर-द्धेमन्तवसन्तनवान्नैः श्राद्धमाचरेत्। नाकृत्वा तत्तदश्नी-यादश्नंस्तदघमश्नुते। कृष्या तूत्पाद्य धान्यानि खल-यज्ञं समाप्य च। सर्वसत्वहितोद्युक्त इहामुत्र सुखीभवेत्। कृषेरन्योत्त धर्मं न लभेत् कृषितोऽन्यतः। न सुखं कृषितोऽन्यत्र यदि धर्मेण कर्षति। अवस्{??}त्वंनिरन्नत्वं कृषितो नैव जायते। अनातिथ्यञ्च दुःखित्वंदुर्मनो न कदाचन। निर्धनत्वमसभ्यत्वं विद्यायुक्तस्यकर्हिचित्। अस्थानित्वमभाग्यत्वं न सुशीलस्य कर्हि-चित्। वदन्ति कवयः केचित् कृष्यादीनां विशुद्धये। लाभस्यांशप्रदानञ्च सर्वेषां शुद्धिकृद्भवेत्। प्रतिग्रहचतु-र्थांशं बणिग्लाभं तृतीयकम्। कृषितो विंशतिञ्चैव ददतोनास्ति पातकम्। राज्ञो दत्त्वा च षड्भागं देवतानांच विंशकम्। त्रयस्त्रिंशञ्च विप्राणां कृषिकर्मा नलिप्यते। कृष्या समुत्पाद्य य{??}दिकानि घान्यानिभूयांसि, मखं विधाय। मुक्तो गृहस्थोऽपि पराशरेणतस्यामयः कश्चिदवादि दोषः। देवा मनुष्याः पित-रश्च सर्वे साध्याश्चयक्षाश्च सकिन्नराश्च। गावो द्विजे-न्द्राः सह सर्वसत्वैः कृषां न तृप्तानि मनाग् दुरेति। यश्चैतदालोच्य कृषिं विदध्यात् लिप्येत पापैर्न स भूभवैश्च। सीरेण तस्यापि विदारितापि स्याद्भूतधात्री वरदानदात्री। षट् कर्माणि कृषिं ये तु कुर्युर्ज्ञानविधिं द्विजाः। ते सु-रादिवरप्राप्ताः स्वर्गलोकमवाप्नुयुः। षट्कर्मभिः कृषिःप्रोक्तो द्विजानां गृहमेधिनाम्”। कृषिकार्म्मारम्भमुहूर्त्तादि मु॰ चि॰ पी॰ धा॰ दर्शितं यथा
“मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनार्कं शनिं पापैर्हीनबलैर्विधौ जलगृहे शुक्रे विधौ मांसले। लग्ने देवगुरौ-हलप्रवहणं शस्तं न सिंहे घटे कर्काजैणधटे तनौ क्षय-[Page2206-a+ 38] करं रिक्तासु षष्ट्यान्तथा। एतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना बीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टा-ग्नीन्दुरामेन्दवः। रामेन्द्वग्नियुग न्यसच्छुभकराण्यु-प्तौ हलेऽर्कोज्झिताद्भाद्रामाष्टनवाष्टभानि मुनिभिःप्रोक्तान्यसत्सन्ति च” मू॰
“मूलविशाखामघाभिः चरध्रुवमृदुक्षिप्रैश्च एकोनविं-शतिनक्षत्रैर्हलप्रवहणं हलप्रवृत्तिं कुर्यात् यदाहनारदः
“मृदुध्रुवक्षिप्रचरविशाखापितृभेषु च। हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः”। विशेषमाहश्रीपतिः
“मृदुध्रुवक्षिप्रचरेषु मूले मघाविशाखासहितेषुभेषु। हलप्रवाहं प्रथमं विदध्यान्नीरोगमुष्कान्वितसौरभेयैः”। नीरोगाः षीडारहिता मुष्का वृषणा-स्तैरन्विता ये सौरभेया वृषास्तैर्विदध्यादित्यर्थः। उक्तञ्चैतत् वृषाणां वृषणास्तु फलरूपा अतस्तादृ-शैर्वृषैः कृतं कर्षणं सफलं स्यात् चूर्णितवृषणै-र्वृषैः कृतं कर्षणं निष्फलमेव भवति। तथाऽर्कं सूर्य-वारं शनिवारं विना त्यक्त्वान्यवारेषु चन्द्रमङ्गलबुधवृहस्पतिशुक्रवारेषु हलप्रवहणं शुभम्। उक्तञ्चव्यवहारतत्त्वे
“पूर्वाद्वीशयमाग्निभेऽर्कयमयोरिक्तासुनेष्टा कृषिरिति”। अथ सामान्यतोलग्नशुद्धिःतत्र पापग्रहैर्हीनबलैर्निर्बलैरुपलक्षिते लग्ने विधौचन्द्रे शुक्रे मांसले बलिनि पुष्टे उदित इत्यर्थः। तत्रविधौ चन्द्रे जलगृहे जलराशिस्थे सति देवगुरौ लग्न-स्थे च सति हलप्रवहणं शुभम्। उक्तञ्च रक्तमाला-याम्
“शक्तिशालिनि सितेऽथ शीतगौ दुर्बलैरसि-तभौमभास्करैः। आश्रिते शशिनि वारिभोदये लग्न-वर्त्तिनि गुरौ कृषिक्रिया”। कश्यपोऽपि
“गुरौ लग्नगतेशुक्रे बलिन्यापोदये विधौ। शस्ता कृषिक्रिया तत्र दुर्बलैःक्रूरखेचरैः”। अथ विशेषतो लग्नशुद्धिः तत्र सिंहेधटे कुम्भे कर्के अजे मेषे एणे मकरे धटे तुलायाम्एषु लग्नेषु कृषिकर्म्म न शस्तं यतस्तत्क्षयकरं पीडाकरंतथा रिक्तासु चतुर्थीनवमीचतुर्दशीषु षष्ठ्याञ्च क्षयकरंतथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि न शस्तंकृषिकर्म्म। उक्तञ्च ज्योतिःसारसागरे
“मेषलग्ने प-शून् हन्ति कर्कटे जलजन्भयम्। सिंहे सस्यभयं ज्ञेयंतुलायां हलसंक्षयः। मकरे सस्यनाशः स्यात्कुम्भे चौर-भयन्तथा। हन्त्यष्टमी बलीवर्दान् नवमी सस्यघातिनी। षष्ठी च कीटजननी पशून् हन्ति चतुर्दशी”। चतुर्थ्याम-[Page2206-b+ 38] पीदं फलं ध्येयम्। अथ वीजोप्तिमुहूर्त्तफणिचक्र-हलचक्राणि शार्दूलविक्रीडितेनाह एतेष्विति। श्रुतिः श्रवणः बारुणं शततारका अदितिः पुनर्वसुःविशाखा प्रसिद्धा एतैरुडुभिर्नक्षत्रैर्विनैतेषु पूर्वोक्तन-नक्षत्रेषु मूलमवाध्रुवमृदुक्षिप्रधनिष्ठास्वातीषु पञ्चदश-नक्षत्रेषु बीजोप्तिर्वीजवपनं शुभम्। उक्तं च रत्न-मालायाम्
“हस्ताश्विपुष्योत्तररोहिणीषु चित्रानुराधामृगरेवतीषु। स्वातीधनिष्ठासु मघासु मूले वीजो-प्तिरुत्कृष्टफला प्रदिष्टा”। वसिष्ठेनाप्येतावन्त्येव नक्ष-त्राण्युक्तानि
“धातृव्वये कौणपपैत्रपुष्ये हस्तत्रये त्र्यु-त्तरमैत्रभेषु। पौष्णे धनिष्ठास्वथ वाश्विनीषु वीजोप्ति-रुत्कृष्टफलप्रदा स्यादिति”। कौणपोमूलम् नारदेनाप्यु-क्तानि
“मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु। समूलभेषुबीजोप्तिरत्युत्कृष्टफलप्रदा”। कश्यपेनापि वसुवायुभनै-रृत्यक्षिप्रध्रुवमृदूडुषु। सीतां स्मृत्वाथ वीजोप्तिरत्युत्-कृष्टफलप्रदा”। अत्र मवा नोक्ता अत्र भौमोमङ्गल-वारोनिषिद्धः अर्थात् सूर्यचन्द्रवुधगुरुशुक्रशनीनां वारेषुबीजोप्तिःशुभा। नेष्टा कृषिरित्यती नकारोऽत्रानुवर्त्ततेतेन बीजोप्तिर्नेष्टेत्यर्थः। अत्र कालविशेषनिषेधोराजमार्त्तण्डे
“रवौ रौद्राद्यपादस्थेभूमेः संजायत रजः। तस्माद्दिनत्रय तत्र वीजवापं परित्यजेदिति। अथ वी-जीप्तौ फणिचक्रमुच्यते। अगुभतो न विद्यन्ते गावः कि-रणायस्यासावगुः यस्य स्वरूपाभावः। तस्य कुतस्तरांकिरणाः तादृशोऽगूराहुस्तस्यभं नक्षत्र तस्मादित्यर्थः रा-ह्वधिष्ठितनक्षत्रादष्टौ भानि असन्त्यसमीचीनानि, ततस्त्री-णि शुभानि, तत एकमशुभं ततस्त्रीणि शुभानि ततोप्ये-कमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं ततस्त्रीणिशुभानि ततश्चत्वार्यशुभानि। एवं वीजोप्तौ सप्तविंशतिनक्षत्राणां शुभाशुभत्वभुक्तं उक्तञ्च नारदेन भवेद्भत्रि-तयं मूर्ध्निधान्यनाशाय राहुभात्। गले त्रयं कज्ज-लाय वृद्धये द्वादशोदरे। निस्तण्डुलत्वं लाङ्गूले भ-चतुष्टयमीरितम्। नाशोबहिःपञ्चके स्याद्बीजोप्तावितिचिन्तयेदिति”। राहुर्यस्मिन्नृक्षेऽस्ति तस्मान्नक्षत्रत्रयं मूर्ध्नि-मस्तके स्थाप्यं धान्यनाशकरं भवति। ततस्त्रयं गले स्थाप्यंकज्जलाय श्यामिकासम्पादकंस्यात्। ततो द्वादश भानिबहिर्नक्षत्ररहितानि उदरे स्थाप्यानि तानि धान्यवृद्धये स्युःततो नक्षत्रचतुष्टयं पुच्छे निस्तन्दुलत्वकरं स्यात् ततोऽवशिष्टं बहिर्नक्षत्रपञ्चकं धान्यनाशकरं स्यात्। रत्न-[Page2207-a+ 38] मालायाभपि
“मूर्ध्नि त्रीणि गले त्रयञ्च ऊठरे धिष्ण्यनिच द्वादश स्यात्पुच्छे च चतुष्टयं बहिरतोभानां स्थितं प-ञ्चकम्। क्ष्वेडं कज्जलमन्नवृद्धिरधिका निस्तण्डुलत्वं क्र-मात् स्यादीतिप्रभवं भयञ्च फणिभाद्वीजोप्तिकाले स्फुटम्”। अत्रकेचित्। फणिभात् सूर्यनक्षत्रादितिव्याचख्युस्तत्रयुक्तिः
“सूर्यभादुरगःस्थाप्यः” इति स्वरोदयवाक्यैक वाक्य-त्वात्, तन्न नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात्
“रा-होर्धिष्ण्यात्समारभ्य धिष्ण्येष्वष्टसु निष्फलमिति” कश्य-पोक्तेश्च।
“सूर्यभादुरगः स्याप्यः” इति तु स्वरोदयवचनंवीजरोपणविषयम्। तत्र लग्नशुद्धिमाह वसिष्ठः
“भवरिपु-सहजे पापैस्त्रिकोणकेन्द्रस्थितैश्च शुभैः। कथितेषु च धिष्ण्येष्वपि शुभलग्ने वीजवापनं कार्यमिति” अथ हलप्रवहणेचक्रमुच्यते हलेइति हले हलचक्रेऽर्कोज्झितात्सूर्यभुक्ता-न्नक्षत्रात्क्रमेण त्रीणि नक्षत्राणि असन्ति अशुभफलानि। ततोऽष्ट भानि सन्ति शुभफलदानि ततो नव भान्यसन्तिततोऽष्टौ भानि सन्ति यथा सूर्य अर्द्रायां भुक्तभं मृ-गः तत आरभ्य त्रीणि मृगार्द्रापुनर्वसुभान्यशुभानि। ततः पुष्पाश्लेषामघापूर्वफाग्लुनीहस्तचित्रास्वातीन-क्षत्राणि शुभानि। ततो विशाखानुराधाज्येष्ठामूलपूर्वाषाढोत्तरषाढाभिजिच्छवणधनिष्ठानक्षत्राणि अ-शुभानि। ततः शततारकापूर्वभाद्रपदोत्तरभाद्रपदारे-वत्यश्विनीभरणीकृत्तिकारोहिणीनक्षत्राणि शुभानि। एवमष्टाविंशतिर्भानि भवन्ति यदाह वसिष्ठः
“अकग-तागतसंस्थभत्रितयं नेष्टमुभयतस्त्विष्टम्। षोडश धिष्ण्यनवकं शिष्टमनिष्टं च लाङ्गले चक्रे” इति। अर्केण गतंभुक्तम् आगरं भीग्यं सस्थमाक्रान्तम् एतद्भत्रितयं नेष्टं तत्तउभयतःषोडशधिष्ण्यं इष्टं यथा सूर्यभुक्तभात् प्राक्तनान्य-ष्टौ शभानि सूर्यभोग्यभादग्रेतनानि शुभानि स्युरि-त्यर्थः। शिष्टमुर्वरितं मध्यगतनक्षत्रनवकमनिष्टम् एवमत्राप्यष्टाविंशतिर्भानि। नारदोऽपि
“हलादौ वृषनाशाय भत्रयं सूर्यभुक्तभात् अग्रे ऋक्षत्रयं लक्ष्मौ सौख्य” पार्श्वस्थपञ्चकम्। शूलत्रयेऽपि नवकं मरणायान्यपञ्चकम्। श्रियै पुच्छे त्रयं श्रेष्ठंस्याच्चक्रे लाङ्गले शुभम्” इति। अम्यार्थः हलप्रवहणसमये सूर्यमुक्तनक्षत्रान्नक्षत्रत्रयंवृषनाशाय स्यात्। तदग्रे नक्षत्रयं लक्ष्म्यै स्यात् तदग्रेपार्श्वनक्षत्रपञ्चकं सौख्याय स्यात् तदग्रे शूलत्रयगतंनक्षत्रनवकं मरणाय स्यात् तदग्रेऽन्यत् पार्श्वस्थपञ्चकंश्रियै स्यात् तदग्रे पुच्छगतं नक्षत्रत्रयं श्रेष्ठं शुभफल-[Page2207-b+ 38] मिति। अनेनापि प्रकारेण मृगादीनि तान्येवाशुभा-शुभानिं सम्भवन्ति। तत्र हलचक्राकृतिर्लिख्यते तत्रकश्यपः
“त्रिष्वष्टसु नवर्क्षेषृ सप्तस्वर्कविमुक्तभात्। हानिर्वृद्धिः कर्तृमृत्युर्लक्ष्मीश्चैव यथाक्रममिति, हल-नक्षत्रोक्त्यनन्तरमुक्तवान् अस्यायमर्थः अर्कविमुक्तभा-त्त्रिषु भेषु हानिः ततोऽष्टसु भेषु वृद्धिः ततोनवसु भेषुकर्त्तुर्नाशः, ततः सप्तसु भेषु लक्ष्मीप्राप्तिरिति यथाक्रमंफलं ज्ञेयम्। अत्र सप्तविंशतिनक्षत्रोक्तेरभिजिद्गणना-नास्ति। नन्वत्र पञ्चनक्षत्रत्यागे कोहेतुरित्यत आहतदन्तरगत इति तच्छब्देन हलोर्ध्वदण्डशूलोर्द्ध्वद-ण्डावुच्येते तयोरन्तरगते मध्ये विद्यमाने पञ्चकपञ्चकेश्रियै स्थाप्ये नक्षत्रदशकमिति यावत् तच्चान्यद्भत्रितयंहलदण्डोर्ध्वभागे शुभफलदं लेख्यम्” पी॰ धा॰अत्र विशेषः ज्यो॰ त॰ तत्रकूर्म्मचक्रशब्दे दर्शितात् ज्यो॰ त॰ वाक्यात् परग्रन्थो यथा
“कूर्म्माङ्गस्थदेशानाह।
“मध्ये सारस्वतामत्स्याः शूर-सेनाः समाथुराः। पञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्व-याः। मरुनैमिषबिन्ध्याद्रिपाण्ड्यघोषाः सयामुनाः। का-श्ययोध्या प्रयागश्च गयावैदेहकादयः। पाच्यां मागधशोणौच वारेन्द्रोगौडराढकाः। वर्द्धमानतमोलिप्तप्राग्ज्योति-षोदयाद्रयः। आग्नेय्यामङ्गवङ्गोपवङ्गत्रैपुरकोशलाः। कलिङ्गोड्रान्ध्रकिष्किन्धाविदर्भशवरादयः। दक्षिणेऽवन्ति-माहेन्द्रमलया ऋष्यमूककाः। चित्रकूटमहारण्यकाञ्ची-सिंहलकोङ्कणाः। कावेरी ताम्रपर्णी च लङ्कात्रिकूटका-दयः। नैरृते द्रविडानर्त्तमहाराष्ट्राश्च रैवतः। जवनःपह्लवः सिन्धुः पारसिकादयो मताः। पश्चिमे हैहया-स्ताद्रिम्लेच्छवासशकादयः। वायव्ये गुज्जराटश्च नाटजा-लन्धरादयः। उत्तरे चीननेपालहूनकैकेयनन्दराः। गा-न्धारहिमवत्क्रौञ्चगन्धमादनमालवाः। कैलासमद्रका-श्मीरम्लेच्छदेशाः खसादयः। ईशाने स्वर्णभौमश्च ग-ङ्गाद्वारञ्च टङ्कनः। काश्मीरब्रह्मपुरककिरातादरदा-दयः”। देवलः।
“सिन्धुसौवीरसौराष्ट्रास्तथा प्रत्य-न्तवासिनः। अङ्गवङ्गकलिङ्गोड्नान् गत्वा संस्कार-मर्हति” तीर्थयात्राव्यतिकेणेति द्रष्टव्यमिति मिता-क्षरा। व्यासः
“उषरा बहुला भूभिः पन्थानस्तस्करा-हताः। सर्वे बाणिजिकाश्चैव भविष्यन्ति कलौ युगे। शस्यानिष्पत्तिरफला तरुणा वृद्धिशालिनः। भविष्यत्य-फलोहर्षः क्रोधश्च सफलोनृणाम्। पुरुषाल्पं वहुस्त्रीकां[Page2208-a+ 38] तद्युगान्तस्य लक्षणम्”। तत्र ग्रामादिषु स्वनामफलम्। ज्योतिषे
“अवर्गेऽष्टाविषुः के च, षट् चे, वेदाः टवर्गके। एवं ते सप्त, पे वर्गे, ये द्वयं, शे च वह्नयः। इत्थमष्टसुवर्गेषु याः संख्याः कथिताः क्रमात्। नाम्नि वर्गात् स्व-राच्चैव प्रत्येकं तां प्रकल्पयेत्। एकीकृत्याष्टभिर्भक्ते शेष-संख्याध्वजादयः। ध्वजोधूम्रश्च सिंहः श्वा वृषभोरासभो-गजः। ध्वाङ्क्षश्च क्रमतो ज्ञेयः फलं तत्र बलक्रमात्। ध्वाङ्क्षश्वधूम्रवृषभागजः सिंहोध्वजः खरः। यथोत्तर-बला एते ज्ञातव्याः स्वरपारगैः। प्रभौ योधे पुरे देशेमित्रनारीगृहेषु च। बलात् प्रायोभवेल्लाभो न लाभो-बलवर्ज्जितात्। अ गरुडः क मार्जारश्च सिंहः ट शुनी-सुतः। त भुजङ्गः प आखुः स्यात् य वर्गेभः, श मेषकः। नामादिवर्णतोज्ञेया अष्टौ वर्गाः क्रमादमी। यद्वर्गभक्ष्योयः प्रोक्तस्तस्मात्तस्य भवेत् क्षयः। ग्रामवर्गस्य ये भक्ष्या-स्त्यज्यास्तद्ग्रामवासिनः। एवं दुर्गे रणे त्यज्या नकर्त्तव्या गडाधिपाः। अवर्गाद्यष्टकं ज्ञेयं प्रागाद्यष्ट-देशां क्रमात्। स्ववर्मात् पञ्चमे स्थाने खण्डिर्भङ्गश्चजायते”। व्यासः
“धनिनः श्रोत्रियोराजा नदीवैद्यश्च पञ्चमः। पञ्च यत्र न विद्यन्ते तत्र न दिवसंवसेत्”। मत्स्यपुराणे
“फालकृष्टे तथा देशे सर्ववी-जानि रोपयेत्। त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्यपि। ज्येष्ठा मध्या कनिष्ठा भूर्वर्ज्जनीयेतरा मता” !अथ लाङ्गलचक्रं स्वरोदये
“लाङ्गलं दण्डिकायूपंयोक्त्रद्वयसमन्वितम्। दण्डिकादि लखेद्भानि दिनेशाक्रान्त-भादितः। दण्डिकाहलयूपानां द्विद्विस्थाने त्रिकं त्रिकम्। योक्त्रयोश्च त्रिकञ्चैव मध्ये मञ्चाप्रके द्वयम्। दण्डस्थेच गवां हानिर्यूपस्थे स्वामिनोभयम्। लक्ष्मीर्लाङ्गल-योक्त्रादौ क्षेत्रारम्भदिनर्क्षके”। अथ वीजोप्तिचक्रम्।
“सूर्य्यभादुरगः स्थाप्यस्त्रिनाड्ये-कान्तरक्रमात्। मुखे त्रीणि गले त्रीणि भानि द्वादश-तूदरे। पुच्छे चतुर्बहिः पञ्च दिनभाच्च फलं वदेत्। वदने चोचकं विद्यात् गलकेऽङ्गारकस्तथा। उदरे धान्य-वृद्धिः स्यात् पुच्छे धान्यक्षयो भवेत्। ईतिरोगभयंराज्ये चक्रे वीजोप्तिसम्भवे”। सूर्य्यभात् सूर्य्यभुज्य-माननक्षत्रात् त्रिनाड्येकान्तरक्रमादिति यद्यश्विन्यांरविस्तदा तामारभ्य गणयेत्। त्रिनाडीषु अश्विनीभ-रणीकृत्तिका दत्त्वा रोहिणी बहिः कार्य्या मृगार्द्रा-पुनर्व्वसुमानि त्रिनाडीषु दत्त्वा पुष्योवहिः कार्य्यः एवं[Page2208-b+ 38] क्रमेणान्या लेख्याः। चोचकं शस्यशून्यताम्। ईतयः।
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः। प्रत्या-सन्नाश्च राजानः षडेते ईतयः स्मृताः” वीजोप्तिः सम्भवःकारणमस्येति व्युत्पत्तिभाश्रित्य वीजरोपविषयमितिपी॰ वा॰ स्थितम्। (
“वृषचक्रं वृषाकारं सर्व्वावयवसंयुतम्। लिखित्वाविन्यमेद्भानि वृषनामर्क्षपूर्व्वकम्। मुखाक्षिकर्णशीर्षेपुशृङ्गे स्कन्धे द्विकं द्विकम्। त्रीणि पृष्ठे द्वयं पुच्छेऽष्टौ-पादे तूदरे त्रिकम्। हलप्रवाहवीजोप्तिप्रारम्भादिदिनर्क्षकम्। यदङ्गेषु स्थितं तस्माद्वक्ष्ये सर्व्वं शुभाशुभम्। आस्ये हानिः सुखं नेत्रे कर्णे भिक्षाटनं तथा। शीर्षेधृतिस्तथा शृङ्गे सौख्ये स्कन्धे च मङ्गलम्। पृष्ठे कष्टंशुभं पुच्छे भ्रमः पादे सुखं हृदि। चन्द्रयोगादिदं प्रोक्तंवृषचक्रफलं बुधैः”। दीपिकायाम्
“पूर्व्वाग्नियाम्यफणिपित्रशिवान्यभेषु वि-क्ताष्टमीविगतचन्द्रतिथिं विहाय। द्व्यङ्गालिगोसमुदयेविकुजार्किवारे शस्तेन्दुयोगकरणेषु हलप्रवाहः। हलप्र-बाहवद्वीजपनस्य विधिः स्मृतः। चित्रायाञ्च शुभे केन्द्रेस्थिरस्वमनुजोदये”। भीमपराक्रमे
“वामे कृष्णंवलीवर्द्दं दक्षिणे लोहितं न्यसेत्। उत्तराभिमुखोभूत्वाकर्षकः कृषिमारभेत्। हले तु योजिते यत्र क्षेत्रे ग्रामंकरोति गौः। तत्र स्याद्द्विगुणं शस्यमवश्यं गर्गभाषित-म्”। कृत्यचिन्तामणौ बलभद्रः
“सुखदा प्रतिपच्चैव द्वितीयाकार्य्यसाधिनी। आरोग्यदा तृतीया च चतुर्थीकोट-कृत्सदा। पञ्चमी श्रीप्रदा नूनं षष्ठी च कलहप्रिया। सप्तमी स्थानदा भोग्या वृषं हन्ति तथाष्टमी। नवमीशस्यनाशाय् दशमी भूनिदा सदा। एकादशी तथाकुर्य्याद्धनं धान्यं मनोरथम्। द्वादशी प्राणसन्देहासर्वसिद्धा त्रयोदशी। चतुर्द्दशी पतिं हन्ति पञ्च द-श्येव निष्फला। अमावास्याष्टमीं षष्ठीं रिक्तां च परि-वर्जयेत्। सौरिभौमदिने चैव कृष्यारम्भे धनक्षयः। प्राजेशविष्णुतिष्येषु पित्रकरोत्तरेषु च। अश्विनी-वातपौष्णेषु मूलादितीन्दुभे तथा। वारे भानुजशुक्रेच जीवे शीतकरे तथा। लग्ने स्त्रीगोमीन-युग्मे च कृष्यारम्भं शुभं विदुः। ऐशान्यपुष्पनैवेद्यैः क्षेत्रपालञ्च पूजयेत्। सालङ्कारोहलधरस्रग्भिश्च पूजितं हलम्। दध्याज्यमधुभिः श्रेष्ठं फा-लाग्रञ्च प्रलेपितम्। कर्षं प्रावर्त्तयेत् प्राज्ञोनूतनेन{??}[Page2209-a+ 38] लेन च। हस्ताश्वितिष्यचन्द्रेषु ब्रह्मेन्द्रविष्णुवारुणे। वायव्येन्द्राग्निभे चैव रोहिण्यामुत्तरासु च। वारेजीवज्ञशुक्रे च सोमे दिनकरे तथा। युग्मे युवतिगो-भीने शस्तं स्याद्वीजवापनम्”। राजमार्त्तण्डे
“प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्याश्विनीपौष्णा-नुष्णमरीचयः शतभिषास्वातिर्विशाखा तथा। जीवा-र्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये शस्यानां वपनेभवन्ति लवने शस्ते तिथौ रोपणे”। देवलः‘ गुरु-सोमसूर्य्यशुक्राःक्षेम्याः सम्पत्कराः शुभाः। बुधार्कि-भूमिपुत्त्राश्च न भवन्ति फलप्रदाः। हन्ति मेषः पशून्सर्व्वान् स्वभावेनाथ वृश्चिकः। कर्कटे न भवेत् सौख्यंतुलायां न प्ररोहति। केशरी शस्यघाती स्यात् पार्थि-वोपद्रवं धनुः। मकरे चैव कुम्भे च भयमेव विनिर्द्दि-शेत्। गोस्त्रीमन्मथमीनेषु शस्यं सम्पद्यते महत्। प्रशस्ते चन्द्रतारे च शुचिः शुक्लेन वाससा। स्नात्वा ग-न्धैश्च पुष्पैश्च पूजयित्वा विधानतः। पृथ्वीञ्च ग्रहसंयुक्तांपूजयित्वा प्रजापतिम्। अग्निं प्रदक्षिणीकृत्य दीयतेभूरिदक्षिणा। कृष्णौ वृषौ नियोक्तव्यौ नवनीतैर्घृतेनवा। मुखपार्श्वं तयोर्लिप्यात् फालाग्रं कनकैः स्पृशेत्। उत्तराभिमुखोभूत्वा क्षीरेणार्घ्यं प्रदापयेत्। ततः शुभ-करः श्रीमान् कृषिकर्म्म समाचरेत्। वर्जयेद्भग्नशृङ्गञ्चक्षुरभग्नञ्च वर्जयेत्। विकलं छिन्नलाङ्गूलं कपिलं वृषभंतथा। हलप्रवाहणं कार्य्यं नीरुग्भिः कृषिकर्म्मकैः। हलादिभिर्दृढैः क्षेमं कुदृढैर्न शुभं वदेत्। वृषभायदि मु-ह्यन्ति तस्य विघ्नप्रदा भवेत्”। कृषिरिति शेषः।
“तस्मात्सर्व्वप्रयत्नेन निर्व्विघ्नं कारयेत् सदा। एका जयकरीरेखा तृतीया चार्थदायिका। पञ्चमी या भवेद्रेखाबहुशस्यफला हि सा। अतऊर्द्ध्वं न कर्त्तव्यं महा-दोषस्ततोभवेत्। संपूज्याग्निं द्विजं देवं कुर्य्याद्धलप्रव-र्त्तनम्। हेमनिघृष्टं फालाग्रं छिन्नरेखां न कारयेत्। स्मर्त्तव्या वसवश्चेन्द्रः पृथ्रामः सचन्द्रमाः। पराशरो-बलभद्रः सर्वविघ्नप्रशान्तथे। हले प्रावाह्यमाणे। तुकूर्म्मौत्पद्यते यदि। गृहिणी म्रियते तस्य ततोऽग्नेश्चभयं भवेत्। लाङ्गलं भिद्यते चापि प्रभुस्तत्र विन-श्यति। ईशाभङ्गीयदा कर्त्तुः संशयोजीवितस्य च। सुतनाशोयुगाभङ्गे समीने म्रियते सुतः”। समीने यो-क्त्रबन्धनकाष्ठद्वये।
“योत्त्नाच्छेदे तु व्यासङ्गः शस्यहानिश्चजायते। हले प्रवाह्यमाणे तु गौरेकः प्रपतेद्यदि। [Page2209-b+ 38] प्रपतेन्मुक्तमात्रस्तु बन्धनं स प्रपद्यते। ज्वरातिसार-रोगेण कृषिभङ्गं विनिर्दिशेत्। प्रवाहमुक्तमात्रस्तु ततो-गौः प्रपतेत् यदि। वत्सानीढेन नर्देत्तु तदा शस्यं चतु-र्गुणम्। हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः। इन्द्रं चित्ते निधायाथ स्वय मुष्टित्रयं वपेत्। कृत्वा-चान्योन्यप्रोत्साहं कर्षकोहृष्टमानसः। प्राङ्मुखःकलसं गृह्य इमं मन्त्रमुदीरयेत्। त्वं वै वसुन्धरे सीते!बहुपुष्पफलप्रदे!। नमस्ते मे शुभं नित्यं कृषिं मेधां-शुभे! कुरु। रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु। कर्षकास्तु भवन्त्यग्र्या धान्येन च धनेन च स्वाहा”। कृत्यरत्नाकरे ब्रह्मपुराणम्
“चैत्रे च कृष्णपञ्चम्यांकाश्मीरा च रजस्वला। नित्यं भवति तस्मात्तां कृत्वाशैलमयीं स्त्रियम्। अभ्यङ्गवस्त्रनैवेद्यैः पूजयेच्च दिन-त्रयम्। पुष्पाकङ्कारधूपैश्च गोरसं वर्जयन्ति च”। का-श्मीरा पृथ्वी।
“अष्टम्याञ्च ततः स्नाप्य ताभिरेव गृहे-गृहे। सुस्नाताभिः प्रहृष्टाभिर्जीवपत्नीभिरेव च। अनन्तरं द्विजैः स्नाप्य सर्वौषधियुतैर्जलैः। गन्धैर्वीजै-स्तथा रत्नै फलैः सिद्धार्थकैस्तथा। स्नापयित्वा च तांदेवीं गन्धैर्माल्यैश्च पूजयेत्। तन्निवेदितशिष्टन्तु प्राशितव्यंगृहे गृहे। अतःपरं स्नाता गर्भं गृह्णाति ऋतुमेदिनी”। तथा
“ब्रह्मा विष्णुश्च रुद्रश्च काश्यपः सुरभी गृहे। इन्द्रः प्रचेताः पर्जन्यः शेषचन्द्रार्कवह्नयः। वलदेवोहलं भूमिर्वृषभो रामलक्ष्मणौ। रक्षोघ्नौ, जानकीसीता युगं गगनमेव च” सीता लाङ्गलपद्धतिः। युगं युगकाष्ठम्।
“एते द्वाविंशतिः प्रोक्ता प्रजानांपतयः शुभाः। गोमङ्गले तु संपूज्याः कृष्यारम्भेमहोत्सवे। अर्घ्येः पुष्पैश्च धूपैश्च माल्यै रत्नेःपृथक्पृथक्। हलेन वाहयेद्भूमिं स्वयं स्नातः स्वल-ङ्कृतः”। तथा।
“उत्प्वा वौजन्तु तत्रैव भोक्तव्यं वा-न्धवैः सह”। वीजवपनं प्राजापत्यतीर्थेन यथाह हा-रीतः
“कनिष्ठायाः पश्चात् प्राजापत्यमावपनं हो-मतर्पणे प्राजापत्येन कुर्य्यात्” इति। होमतर्पणे लाज-होमसनकादितर्पणे। राजमार्त्तण्डे पराशरः
“नित्यंदशहले लक्ष्मीर्नित्यं पञ्चहले धनम्। नित्यञ्च त्रिहलेभक्तं नित्यमेकहले ऋणम्”।
“वैशाखे वपनं श्रेष्ठंमध्यमं रोहिणीरवौ। अतःपरस्मिन्नधमं न जातु श्रा-वणे शुभम्”। ज्योतिषे
“पूर्वभाद्रपदा मूलं रोहि-ण्युत्तरफल्गुनी। विशाखा शतभिषा वा घा[Page2210-a+ 38] न्यानां रोपणे वरा। सदोप्त्वा रजनीं नीलीं पुत्र-वित्तैर्वियुज्यते। स्वयं जाते पुनस्ते द्वे पालयन्नैवदुष्यति। आरामे गृहमव्ये वा मोहात् सर्षपमावपत्। पराभवं रिपोर्याति ससाधनधनक्षयम्। निशा नीलीपलाशश्च चिञ्चा श्वेतापराजिता। कोविदारश्च सर्वत्रसर्वं निघ्नन्ति मङ्गलम्”। निशा हरिद्रा। कोविदा-रकोरक्तकाञ्चनः।
“हेमाम्भसा वृक्षवीजं स्नातोम-न्त्रेण रोपयेत्। वसुधेति सुसीतेति पुण्यदेति धरेतिच। नमस्ते शुभगे! नित्यं द्रुमोऽयं वर्द्धतामिति। अ-रिष्टाशोकपुन्नागबकुलाम्रप्रियङ्गवः। माङ्गल्याः पूर्ब-मारामे रोपणीया गृहेषु च। अश्वत्थमेकं पिचुमर्दमेकंद्वौ चम्पको त्रीण्यथ केशराणि। तालाष्टकं श्रीफलस-प्तकञ्च पञ्चाम्रवापी नरकं न पश्येत्”। दानरत्नाकरेदेवीपुराणम्
“ये च पापा दुराचाराः श्रीतरुच्छेदका-रिणः। तेऽप्यवीच्यादिनरके पच्यन्ते ब्रह्मणोदिनम्। मृतास्ते जीव्यमानास्तु ब्रह्मघ्नाः कीर्त्तिता भुवि। तस्मिन्देशे भयं नित्यं राजानोन चिरायुषः। नच नन्द-त्ययं लोको यत्र श्रीफलभेदिनः। श्रीतरुर्विल्वः।
“लिखित्वा लक्तकेनापि मन्त्रं शस्येषु बन्धयेत्। न व्या-विकीटहिंस्राणां भयं तत्र भवेत् क्वचित्।
“सिद्धिःप्रचलतरङ्गतरलितमृदुतरसमीरणवनोद्देशे श्रीमद्रामभ-द्रपादाः कुशलिनः समुद्रतटे नानाशतसहस्रवानराणांमध्ये खरनखरपश्चार्द्धलाङ्गूलं पवनसुतं वायुवेगं पर-चक्रप्रमथनं श्रीमद्धनूमन्तमाज्ञापयन्ति अमुकस्याखण्ड-क्षेत्रे वाताभोम्भोगान्धीरुतीपाण्डरमुण्डीधूलीशृङ्गार-तल्पाकृशराङ्गताफडिङ्गैलावानरागरुडामडकमहिषादि-रोगम् खण्डयत क्षणमपि विलम्बं मा चरत यदिविलम्बं कारयत तदा युष्मान्शतखण्डं कारयामीति। घ्रां घ्रीं घ्रों श्रीरामाय नमः”। इति शस्येषु बन्धयेत्”
“कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः” शु॰ त॰ पु॰। वा ङीप् कृपीत्यप्यत्र। स्वार्थे क कृषिकाप्यत्र स्त्री। आधारे कि। भुवि

२ । कृषिर्भूवाचकः शब्द” भा॰। कृष्णशब्दे दृश्यम्

"https://sa.wiktionary.org/w/index.php?title=लाङ्गलं&oldid=227748" इत्यस्माद् प्रतिप्राप्तम्