लाङ्गली
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लाङ्गली, [न्] पुं, (लाङ्गलमस्त्यस्येति । लाङ्गल + इनिः ।) बलरामः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ३८ । ३८ । “स्थापयित्वा विलद्वारि यदून् लाङ्गलिना सह । शार्ङ्गधन्वा विलस्थन्तु जाम्बवन्तं ददर्श ह ॥”) नारिकेलः । इत्यमरः ॥ (यथा, -- “नारिकेलो दृढफलो लाङ्गली कूर्च्चशीर्षकः । तुङ्गस्कन्धफलश्चैव तृणराजः सदाफलः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) सर्पः । इति शब्दचन्द्रिका ॥ (लाङ्गलविशिष्टे, त्रि । यथा, रामायणे । २ । ३२ । ३० । “तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटोंनामवै द्बिजः । क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥” तथा, महाभारते । १ । २२२ । ५३ । “रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ॥” स्त्रियां ङीष् । नदीविशेषः । यथा, मार्कण्डेये । ५७ । २९ । “लाङ्गलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ॥”)
लाङ्गली, स्त्री, (लाङ्गलाकारोऽस्त्यस्या इति । लाङ्गल + अच् । ङीष् ।) लाङ्गलाकारपुष्प- जलजशाकविशेषः । का~चडा इति भाषा । तत्पर्य्यायः । शारदी २ तोयपिप्पली ३ शकुला- दनी ४ । इत्यमरः ॥ जलाक्षी ५ जलपिप्पलिः ६ । इति शब्दरत्नावली ॥ पित्तला ७ श्यामा- दिनी ८ मत्स्यगन्धा ९ । इति जटाधरः ॥ कलि- कारी १० । इति राजनिर्घण्टः ॥ (शालपर्णी । तत्पर्य्यायो यथा, -- “स्थिरा विदारिगन्धा च शालपर्ण्यस्तमत्यपि । लाङ्गली कलसी चैवक्रोष्टुपुच्छा गुहा मता ॥” इति गारुडे २०८ अध्यायः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लाङ्गली स्त्री।
जलपिप्पली
समानार्थक:लाङ्गली,शारदी,तोयपिप्पली,शकुलादनी
2।4।111।1।1
लाङ्गली शारदी तोयपिप्पली शकुलादनी। खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
लाङ्गली स्त्री।
नालिकेरः
समानार्थक:नालिकेर,लाङ्गली
2।4।168।2।4
तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः। तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लाङ्गली¦ स्त्री लाङ्गलाकारः पुष्पमस्त्यस्याः अच् गौरा॰ ङीष्(कां चडा) शाकमेदे अमरः।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लाङ्गली [lāṅgalī], The cocoa-nut tree.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लाङ्गली f. N. of various plants Pan5car. Sus3r. ( accord. to L. Jussiaea Repens ; Hemionitis Cordifolia ; Rubia Munjista ; Hedysarum Lagopodioides ; the cocoa-nut tree ; = रास्ना)
लाङ्गली f. of a river MBh.