सामग्री पर जाएँ

लाजाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लाजाः, पुं, भूम्नि, (लाञ्ज्यन्ते ये ते । लाज् + घञ् ।) भृष्टधान्यम् । लाओया इति खै इति च भाषा । (यथा, रामायणे । २ । ४३ । १३ । “कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ । लाजेरवकरिष्यन्ति प्रविशन्तावरिन्दमौ ॥”) तत्पर्य्यायः । अक्षतम् २ । इत्यमरः । २ । ९ । ४७ ॥ लाजा ३ अक्षताः ४ । इति भरतः ॥ अस्य गुणाः । तृष्णाच्छर्द्द्यतीसारप्रमेहमेदःकफनाशि- त्वम् । कासपित्तोपशमनत्वम् । अग्निकारित्वम् । लघुत्वम् । शीतलत्वञ्च । अस्य मण्डगुणाः । अग्निकारित्वम् । दाहतृष्णाज्वरातीसारनाशि- त्वम् । अशेषदोषामपाचनत्वञ्च ॥ तस्य पेया- गुणाः । क्षामकण्ठस्य श्रमघ्नत्वम् । क्षुधातृष्णा- ग्लानिदौर्ब्बल्यकुक्षिरोगनाशित्वञ्च । इति राज- वल्लभः ॥ * ॥ अपि च । “एते च व्रीहयो भृष्टास्ते लाजा इति संज्ञिताः । यवादयश्च ये भृष्टास्ते धानाः परिकीर्त्तिताः ॥ लाजाश्च यवधानाश्च तर्पणाः पित्तनाशनाः । गोधूमयावनालोत्थाः किञ्चिदुष्णाश्च दीपनाः ॥ तृष्णातीसारशमनो धातुशाम्यकरः परः । मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् । देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः ॥” इति राजनिर्घण्टः ॥ * ॥ तस्य चूर्णगुणाः । “द्राक्षादाडिमखर्ज्जूरमृदिताम्बुसशर्करम् । लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम् ॥” लाजचूर्णं द्राक्षादिजलशर्करामध्वाज्यसहितं तर्पणमुक्तमित्यर्थः । लाजशक्तुगुणाश्च गुणग्रन्थे । “लाजानां शक्तवः क्षौद्रसितायुक्ता विशेषतः । छर्द्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः ॥” चरकश्च । “तत्र तर्पणमेवादौ प्रदेयं लाजशक्तुभिः । ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=लाजाः&oldid=162712" इत्यस्माद् प्रतिप्राप्तम्