सामग्री पर जाएँ

लावणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लावणम्, त्रि, (लवण + अण् ।) लवणेन संस्कृतम् । यथा, -- “सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यामुदकं लाषणिकमुदश्विति । औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम् ॥” इति हेमचन्द्रः ॥ लवणसम्बन्धि च । (यथा, हरिवंशे । ५३ । २० । “स मां परिभवन्नेव स्वां वेलां समुपाक्रमन् । क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः ॥”) नस्ये, क्ली । इति रत्नमाला ॥

"https://sa.wiktionary.org/w/index.php?title=लावणम्&oldid=162750" इत्यस्माद् प्रतिप्राप्तम्