सामग्री पर जाएँ

लिम्पाकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लिम्पाकम्, क्ली, निम्बूकविशेषः । पातिलेवु इति भाषा । तस्य गुणाः । सुरभित्वम् । स्वादुत्वम् । नात्यम्लत्वम् । भक्तरोचनत्वम् । वातश्लेष्महर- त्वम् । हृद्यत्वम् । छर्दिघ्नत्वम् । नातिपित्तकृत्त्वञ्च । इति राजवल्लभः ॥ (तथा च । “कर्षं शुद्धं मृतं ताम्रं लिम्पाकाङ्घ्रित्वचां पलम् ॥” इति रसेन्द्रसारसंग्रहे प्लीह्रि यकृदरिलौहे ॥)

"https://sa.wiktionary.org/w/index.php?title=लिम्पाकम्&oldid=162827" इत्यस्माद् प्रतिप्राप्तम्