लुक्कायित
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुक्कायितः, त्रि, (लुक् कायस्य यस्य तादृश इवा- चरतीति । लुक्काय + क्विप् । ततः क्तः ।) अन्तर्हितः । यथा । अन्तर्धानं लुक्कायनमिति यावत् । यथा गुरोरन्तर्द्धत्ते शिशुः निलीयते यलायते लुक्कायते लुक्कायतीति लुञ्चापनयने- ऽपि लुक् । लुक् कायः शरीरं यस्य स लुक्कायः ततः स इव आचरतीति क्वौ साध्यम् । इति कारकटीकायां दुर्गादासः ॥ कर्म्मणि क्तप्रयेन निष्पन्नोऽयम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुक्कायित¦ त्रि॰ लुच्यते लुन्च--अपनयने क्विप् लुक् कायोयस्य तादृश इवाचरति लुक्काय + क्विप्--क्त। अन्तर्हितदेहे