लुठ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुठ, उपघाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) लोठति । इति दुर्गादासः ॥
लुठ, इ गत्यालस्यस्तेयखोटे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अक० च-सेट् ।) इ, लुण्ठ्यते । आलस्यं मन्दीभावः । स्तेयं चौर्य्यम् । खोटः खोडनम् । इति दुर्गादासः ॥
लुठ, ऌ ङ प्रतीघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ऌ, अलुठत् । ङ, लोठते । इति दुर्गादासः ॥
लुठ, क चौर्य्ये । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, लोठयति । इति दुर्गा- दासः ॥
लुठ, शि लोटे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-सेट् ।) शि, लुठति अलुठीत् लुलोठ । लोटः सम्बन्धीमावः । हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । इति दुर्गा- दासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुठ¦ प्रतिघाते भ्वा॰ आ॰ लुङि उभ॰ सक॰ सेट्। लोठते। अलुठत् अलोठिष्ट। ऋदित् चङि न ह्रस्वः।
लुठ¦ उपघाते भ्वा॰ पर॰ सक॰ सेट्। लोठति अलोठीत्।
लुठ¦ लोठे तु॰ कु॰ प॰ अक॰ सेट्। लुठति अलुठीत्।
लुठ¦ चौर्य्ये चु॰ उभ॰ सक॰ सेट्। लोठयति ते अलूलुठत् त।
