लुठितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुठितः त्रि, (लुठ + क्तः ।) मुहुर्भुवि परावृत्तः । श्रमशान्त्यर्थं पुनःपुनर्भूमौ लुठितोऽश्वः । तत्- पर्य्यायः । उपावृत्तः २ । इत्यमरभरतौ ॥ वेल्लितः ३ । इति शब्दरत्नावली ॥ अपावृत्तः ४ परावृत्तः ५ । इति हेमचन्द्रः ॥ (यथा, कथा- सरित्सागरे । १०२ । ७७ । “शिलाकलापो लुठितः किमञ्जनगिरेरयम् । किमुताकालकल्पान्तमेघौघः पतितो भुवि ॥”)
