लुप
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुप ॠ श प ऌ ञ औ छेदे । इति कविकल्प- द्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।) ॠ, अलूलुपत् अलुलोपत् । श प ञ, लुम्पति लुम्पते । ऌ, अलुपत् । औ, लोप्ता । इति दुर्गादासः ॥
लुप, इर य युपि । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-अक०-सेट् ।) इर, अलुपत् अलोपीत । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, लुप्यति । युपि आकुलीभावे । पातुं लुप्यति लावण्यं नेत्राञ्जलिपुटैर्नरः । इति हलायुधः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुप¦ छेदने विनाशने च तु॰ मुचा॰ उभ॰ सक॰ अनिट्। लुम्पतिते अलुपत् अलुप्त। ऋदित् चङि वा ह्रस्वः। अलूलुपत्त अलुलोपत् त।
लुप¦ आकुलीभावे दिवा॰ पर॰ अक॰ सेट्। लुप्यति अलुपत् अलोपीत् नित्यमङ् इत्येके।
