सामग्री पर जाएँ

लुप्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लुप्तम्, क्ली, (लुप् + क्तः ।) चौर्य्यधनम् । लोत इति ख्यातम् । इति शब्दरत्नावली ॥ लोप- वति, त्रि । यथा, -- “चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च । प्रशंसा निन्दनं द्वेषात् परुषान्न विशिष्यते ॥” इति तिथ्यादितत्त्वम् ॥ (यथा च, आर्य्यासप्तशत्याम् । ३६३ । “परिवृत्तनाभि लुप्तत्रिबलि श्यामस्तनाग्र- मलसाक्षि । बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥”)

"https://sa.wiktionary.org/w/index.php?title=लुप्तम्&oldid=162881" इत्यस्माद् प्रतिप्राप्तम्