लुब्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लुब्धः, पुं, (लुभ + गत्यर्थेति क्तः ।) व्याधः । (यथा, महाभारते । १६ । ४ । २१ । “स संनिरुद्धेन्द्रियवाङ्मनास्तु शिष्ये महायोगमुपेत्य कृष्णः । जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगसंलिप्सुरुग्रः ॥”) लम्पटः । इति शब्दरत्नावली ॥
लुब्धः, त्रि, (लुभ + क्तः ।) आकाङ्क्षी । इति मेदिनी । धे, १४ ॥ तत्पर्य्यायः । गृध्नुः २ । गर्द्धनः ३ अभिलाषुकः ४ तृष्णक् ५ । इत्य- मरः ॥ (यथा, कथासरित्सागरे । ५५ । ३० । “लुब्धो यशसि नत्वर्थे भीतः पापान्न शत्रुतः । मूर्खः परापवादेषु नच शास्त्रेषु योऽभवत् ॥”)
