लोकायतिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लोकायतिकः, पुं, (लोकायतं शास्त्रमस्त्यस्येति । लोकायत + ठन् ।) चार्व्वाकः । इति हेम- चन्द्रः ॥ (तार्किकः । यथा, हरिवंशे । २४९ । ३० । “ऐक्यनामात्मसंयोगसमवायविशारदैः । तोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम् ॥”)
