सामग्री पर जाएँ

लोकालोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोकालोकः, पुं, (लोक्यतेऽसौ इति लोकः । न लोक्यतेऽसौ इति अलोकः । ततः कर्म्म- धारयः ।) स्वनामख्यातपर्व्वतः । तत्पर्य्यायः । चक्रवाडः २ । इत्यमरः ॥ द्वे साब्धिद्बीपां महीमावेष्ट्य प्राकारवत् स्थिते गिरौ लोकालोक इति स्वनामख्याते । अन्तर्लोक्यते सूर्य्यरश्मिभिः स्पृश्यमानत्वात् इति लोकः । तथा बहिः मूर्य्यकिरणास्पर्शात् न लोक्यते इति अलोकः । लोकृ ञीक्षे कर्म्मणि घञ् लोकश्चासौ अलोक- श्चेति लोकालोकः । चक्रं महीचक्रं वण्डते वेष्टयति चक्रवाडः । वडि ङ वेष्टे च षण्- ज्ञापकसिद्धस्यानित्यत्वात् न नुण् । इति भरतः ॥ (यथा, रघुः । १ । ६८ । “मोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥” अस्य विवरणं यथा देवीभागवते । ८ । १४ । १-१५ । श्रीनारायण उवाच । “ततः परस्तादचलो लोकालोकेति नामकः । अन्तराले च लोकालोकयोयः परिकल्पितः ॥ यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् । सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥ दर्पणोदरतुल्या सा सर्व्वप्राणिविवर्ज्जिता । यस्यां पदार्थः प्रहितो न किञ्चित् प्रत्युदीयते ॥ अतः सर्व्वप्राणिसङ्घरहिता सा च नारद ! । लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥ लोकालोकान्तरे चास्य वर्त्तते सर्व्वदा स्थितिः । ईश्वरेण सलोकानां त्रयाणामन्तगः कृतः ॥ सूर्य्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह । अर्व्वाचीनाश्च त्री~ ल्लोकानातन्वानाः कदापि हि ॥ पराचीनत्वभाजो हि न भवन्ति च नारद ! । तावदुन्नहनायामः पर्व्वतेन्द्रो महोदयः ॥ एतावा~ल्लोकविन्यासोऽयं संस्थामानलक्षणैः । कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च ॥ भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने ! । तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ॥ निवेशिता दिग्गजा ये तन्नामानि निबोधत । ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः ॥ एते समस्तलोकस्य स्थिहिहेतव ईरिताः । तेषाञ्च स्वविभूतीनां बहुवीर्य्योपबृंहणम् ॥ विशुद्धसत्त्वञ्चैश्वर्य्यं वर्द्धयन् भगवान् हरिः । आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः ॥ निजायुधैः परिवृतो भुजदण्डैः समं ततः । आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥ आकल्पमेवं वेशं स गतो विष्णुः सनातनः । स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥ योऽन्तर्व्विस्तार एतेन ह्यलोकपरिमाणकम् । व्याख्यातं यद्बहिर्लोकालोकाचल इती- रणात् ॥” * ॥ लोकश्च अलोकश्च तौ । सूर्य्याद्यालोकविशिष्ट- तद्रहितदेशौ । अत्र द्बिवनप्रयोगः स्यात् । यथा, भागवते । ५ । २० । ३४ । “ततः परस्तात् लोकालोकनामाचलो लोका- लोकयोरन्तराले परित उपकॢप्तः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोकालोक पुं।

लोकालोकपर्वतः

समानार्थक:लोकालोक,चक्रवाल

2।3।2।1।1

लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ। अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोकालोक¦ पु॰ ल क्यतेऽसौ लोकः न लोक्यतेऽसौ कर्म्म॰। स्वनामख्याते सूर्प्यकिरणसम्पर्कसीमापर्बते। तस्य चपार्श्वयोरातपानातपमम्बन्धात्तथात्वम।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोकालोक¦ m. (-कः) A mountainous belt, surrounding the outermost of the seven seas and bounding the world. m. DU. The visible and unvisible world. E. लोक seeing, आलोक not seeing; causing light and darkness, as interposed between the Dwi4pas and the sun.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोकालोक/ लोका n. sg. or m. du. (also m. sg. ?) the world and that which is not the -wworld i.e. world and -nonwworld MBh. Pur.

लोकालोक/ लोका m. N. of a mythical belt or circle of mountains surrounding the outermost of the seven seas and dividing the visible world from the region of darkness (as the sun is within this wall of mountains they are light on one side and dark on the other ; See. IW. 420 ; See. चक्र-वाल) Su1ryas. Ragh. Pur. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--the Mt. forming the boundary of the earth. Br. I. 1. ७८; 3. ३१; वा. ४९. १४४; ५०. १५५, १६०, २०५; १०१. १९१-2. [page३-127+ २९]
(II)--(Mt.) a chain of hills beyond the स्वा- दूदक, between the Loka where the sun shines and Aloka where he does not. The regions lighted by the sun are said to cover ५० crores of yojanas. The chain of the लोका- loka is said to occupy a fourth of the area of the globe. In the Aloka योगेश्वर-Kr2s2n2a travels. फलकम्:F1:  भा. V. २०. ३४-42; M. १२३. ४७; १२४. ३८, ८१.फलकम्:/F Crossed by Arjuna and कृष्ण on their way to वैकुण्ठ in search of the dead child of the ब्राह्मण of द्वारका. A. mythical mountainous belt in the south separating the visible world from the world of darkness. फलकम्:F3:  Br. II. १५. 3; १९. १५०; २१. ५१, १०१ and १०६, १५५; III. 7. २९४; IV. 2. १९४.फलकम्:/F १०,000 yoja- nas in height and breadth; protected by four guardians, सुधामन् and others on the four directions. फलकम्:F4:  Vi. II. 4. ९४; 8. ८२-3.फलकम्:/F ^2 भा. X. ८९. ४८.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

LOKĀLOKA : There is a mountain between Loka and Aloka. This is called Lokālokaparvata and the land beside it is called Lokāloka. The mountain is as long as the distance between Mānasottara and Mahāmeru. This place is golden in colour and as smooth as glass. Not a single being lives there. God has created this as a boundary to the three worlds. All the planets like the Sun get light from the brilliance of this mountain. Brahmā has posted four diggajas named Vṛṣabha, Puṣpacūḍa, Vāmana and Aparājita in the four corners of this mountain. (8th Skandha, Devī Bhāgavata).


_______________________________
*1st word in left half of page 457 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लोकालोक&oldid=436549" इत्यस्माद् प्रतिप्राप्तम्