लोकेशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लोकेशः, पुं, (लोकानामीशः ।) ब्रह्मा । इत्य- मरः ॥ बुद्धभेदः । इति त्रिकाण्डशेषः ॥ पारदः । इति राजनिर्घण्टः ॥ (इन्द्रः । यथा, रघुः । ३ । ६६ । “यथा च वृत्तान्तमिमं सदोगत- स्तिलोचनैकांशतया दुरासदः । तवैव सन्देशहराद्विशांपतिः शृणोति लोकेश ! तथा विधीयताम् ॥” लोकपालः । यथा, मनुः । ५ । ९७ । “लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । शौचाशौचं हि मर्त्तानां लोकेशप्रभवाप्ययम् ॥” लोकाधिपतौ, त्रि । यथा, भागवते । ३ । ६ । १९ । “पादावस्य विनिर्भिन्नौ लोकेशो विष्णुरावि- शत् ॥”)
