सामग्री पर जाएँ

लोभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोभः, पुं, (लुभ् + घञ् ।) आकाङ्क्षा । पर- द्रव्याभिलाषः । तत्पर्य्यायः । तृष्णा २ लिप्सा ३ वशः ४ स्पृहा ५ काङ्क्षा ६ शंसा ७ गर्द्धः ८ वाञ्छा ९ इच्छा १० तृट् ११ मनोरथः १२ कामः १३ अभिलाषः १४ । इति हेमचन्द्रः ॥ * ॥ तस्य लक्षणं यथा, -- “परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्त्तितः ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥ स च ब्रह्मणोऽधराज्जातः । यथा, -- “भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः ।” इति मात्स्ये सुखोत्पत्तिर्नाम ३ अध्यायः ॥ * ॥ स तु नाशकारणं यथा, -- “लोभप्रमादविश्वासैः पुरुषो नश्यते त्रिभिः । तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥ अपि च । “त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥” इति श्रीभगवद्गीतायाम् १६ अध्यायः ॥ (लोभनिन्दाविषयकश्लोकानि यथा, -- “लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादिजनको लोभः पापस्य कारणम् ॥ लोभात् क्रोधः प्रभवति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः पापस्य कार- णम् ॥ लोभात् क्रोधः प्रभवति क्रोधाद्द्रोहः प्रवत्तते । द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः ॥ मातरं पितरं पुत्त्रं भ्रातरं वा सुहृत्तमम् । लोभाविष्टो नरो हन्ति स्वामिनं वा सहो- दरम् ॥ लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥ लोभाविष्टो नरो वित्तं वीक्षते न स चापदम् । दुग्धं पश्यति भार्ज्जारो यथा न लगुडा- हतिम् ॥ प्रायेण धनिनामेव धनलोभो निरन्तम् । पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥ नात्यर्थमर्थार्थितया लुब्धमुद्वेजयेज्जनम् । अब्धिर्दत्त्वाश्वरत्नं स्त्रीर्मथ्यमानोऽसृजद्विषम् ॥ लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्व्वतो भयं दृष्टम् । कार्य्याकार्य्यविचारो लोभविमूढस्य नास्त्येव ॥ सत्यप्रशमतपोभिः शस्त्रधनैः शास्त्रवेदि- भिर्विजितः । लोभो वत प्रविष्टः कुटिलं हृदयं किराती- नाम् ॥ स्नेहोपपन्न इति पूर्णदशाविशेष- शाली स्वमात्मनि वसुप्रकरं निधाय । लब्धोदये तमथ गृह्णति पद्मबन्धौ दीपा भवन्ति कलुषा बलवान् हि लोभः ॥ यद्दुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमथनक्लेशं कृषिं कुर्व्वते । सेवन्ते कृपणं पतिं गजघटासङ्घट्टदुःसञ्चरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फू- र्ज्जितम् ॥” * ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोभः [lōbhḥ], [लुभ्-भावे घञ्]

Covetousness, avarice, greed, cupidity; लोभश्चेदगुणेन किम् Bh.2.55; परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो द्विजश्रेष्ठ स लोभः परिकीर्तितः Padma P.

Desire for, longing after (with gen. or in comp.); कङ्कणस्य तु लोभेन H.1.5; आननस्पर्शलोभात् Me.15.

Avarice personified (one of the six enemies of man).

Perplexity, confusion. -Comp. -अन्वित a. covetous, greedy, avaricious. -अभिपातिन् a. rushing greedily.-आत्मन् a. greedy-minded, avaricious. -मोहित a. beguiled by avarice. -विरहः absence of avarice; H.1.

"https://sa.wiktionary.org/w/index.php?title=लोभः&oldid=231441" इत्यस्माद् प्रतिप्राप्तम्