लोमशा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लोमशा, स्त्री, (लोमानि सन्त्यस्या इति । लोमन् + श । टाप् ।) काकजङ्घा । मांसी । (अस्याः पर्य्यायो यथा, -- “नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी । किरातिनी च जटिला लोमशा तु तपस्विनी ॥” इति वैद्यकरत्नमालायाम् ॥) वचा । (अस्याः पर्य्यायो यथा, -- “वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्व्विका । क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शूकशिम्बिः । महामेदा । कासीसम् । शाकिनी- भेदः । इति मेदिनी । शे, २७ ॥ अतिवला । इति विश्वः ॥ शणपुष्पी । एर्व्वारुः । गन्धमांसी । इति राजनिर्घण्टः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लोमशा f. (only L. )a fox
