सामग्री पर जाएँ

लोमशातन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोमशातनम्, क्ली, (लोम्नां शातनम् ।) लोम- पातनम् । तस्यौषधानि यथा, -- “हरितालं शङ्खचूर्णं कदलीदलभस्मना । एतद्द्रव्येण चोद्बर्त्त्य लोमशातनमुत्तमम् ॥ लवणं हरितालञ्च तण्डुल्याश्च फलानि च । लाक्षारससमायुक्तं लोमशातनमुत्तमम् ॥ सुधा च हरितालञ्च शङ्खञ्चैव मनःशिला । सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् । तत्क्षणोद्बर्त्तनादेव लोमशातनमुत्तमम् ॥” इति गारुडे १८५ अध्यायः ॥ (तथाच । “भल्लातकं बिडङ्गञ्च यवक्षारञ्च सैन्धवम् । मनःशिला शङ्खचूर्णं तैलपक्वं तथैव च । लोमानि शातयत्येव नात्र कार्य्या विचारणा ॥” इति वैद्यके भैषज्यधन्वन्तरौ वशीकरणाद्यधि- कारे ॥ * ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोमशातन¦ न॰ लोमानि शातयति शद--णिच् तान्ता-देशः ल्यु। लोमपातने औषधभेदे गरु॰ पु॰

१८

५ अ॰तदौषधमुक्तं यथा
“हरितालशङ्खचूर्णं कदलीदलभ-स्मना। एतद्द्रव्येण चोद्वर्त्त्य लोमशातनमुत्तमम्। लवणं हरितालञ्च तण्डुल्याश्च फलानि च। लाक्ष र स-कमायुक्तं लोमशातनमुत्तमम्। सुधा च हरितालञ्चशङ्खञ्चैव मनःशिला। सैन्धवेन सहैकत्र छागमूत्रेण पेष-येत्। तत्क्षणोद्वर्त्तनादेव लोमशातनमुत्तमम्”।

"https://sa.wiktionary.org/w/index.php?title=लोमशातन&oldid=231664" इत्यस्माद् प्रतिप्राप्तम्