लोलार्कः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लोलार्कः, पुं, (लोलनामा अर्कः ।) सूर्य्यः । यथा, पुलस्त उवाच । “ततः सुकेशिवचनात् सर्व्व एव निशाचराः । तेनोदितन्तु ते धर्म्मं चक्रुर्मुदितमानसाः ॥ ततः प्रवृद्धिं सुतरामगच्छन्त निशाचराः । पुत्त्रपौत्त्रार्थसंयुक्ताः सदाचारसमन्विताः ॥ तज्ज्योतिस्तेजसा तेषां राक्षसानां महात्मनाम् । गन्तुं नाशक्नुवन् सूर्य्यो नक्षत्राणि च चन्द्रमाः ॥ ततस्त्रिभुवनं ब्रह्मन् निशाचरपुरोऽभवत् । दिवा सूर्य्यस्य सदृशः क्षणदायाञ्च चन्द्रवत् ॥ ततः क्रोधाभिभूतेन भानुना विप्रभेदिभिः । भानुभी राक्षसपुरं तद्दृष्टञ्च यथेच्छया ॥ तद्भानुना तदा दृष्टं क्राधाध्मातेन चक्षुषा । निपपाताम्बराद्दृष्टः क्षीणपुण्य इव ग्रहः ॥ पतमानं समालोक्य पुरं शालङ्कटङ्कटः । नमो भवाय सर्व्वाय इदमुच्चैरधीयत ॥ तेषां क्रन्दितमाकर्ण्य चारणा गगनेचराः । हाहेत्युच्चुक्रुशुः सर्व्वे हरभक्तः पतत्यसौ ॥ तच्चारणवचः शर्व्वः श्रुतवान् सर्व्वतोऽव्ययः । श्रुत्वा स चिन्तयामास केनासौ पात्यते भुवि ॥ ज्ञातवान् देवपतिना सहस्रकिरणेन तत् । पातितं राक्षसपुरं ततः क्रुद्धस्त्रिलोचनः ॥ क्रुद्धस्तु भगवान् दृग्भिर्भानुमन्तमपश्यत । दृष्टमात्रस्त्रिनेत्रेण निपपात ततोऽम्बरात् ॥ ततो ब्रह्मा सुरपतिः सुरैः सार्द्धं समभ्ययात् । रम्यं महेश्वरावासं मन्दरं रविकारणात् ॥ गत्वा दृष्ट्वा च देवेशं शङ्करं शूलपाणिनम् । प्रसाद्य भास्करार्थाय वाराणस्यामुपानयत् ॥ ततो दिवाकरं भूयः पाणिनादाय शङ्करः । कृत्वा नामास्य लोलेति रथमारोपयत् पुनः ॥ आरोपिते दिनकरे ब्रह्माभ्येत्य सुकेशिनम् । सबान्धवं सनगरं पुनरारोपयद्दिवि ॥” इति श्रीवामनपुराणे सुकेशिचरिते लोलार्क- जननं नाम १५ अध्यायः ॥
