सामग्री पर जाएँ

लोहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोहः, पुं, क्ली, (लूयतेऽनेनेति । लू + बाहुलकात् हः ।) लौहम् । जोङ्गकम् । सर्व्वतैजसम् । इति मेदिनी । हे, ८ ॥ रुधिरम् । इति राजनिर्घण्टः ॥ अथ मुण्डलोहस्य पर्य्यायः । मुण्डम् २ मुण्डा- यसम् ३ दृषत्सारम् ४ शिलात्मजम् ५ अश्म- जम् ६ कृषिलोहम् ७ आरम् ८ कृष्णायसम् ९ ॥ अथ तीक्ष्णलोहस्य पर्य्यायः । तीक्ष्णम् २ शस्त्रायसम् ३ शस्त्रम् ४ पिण्डम् ५ पिण्डा- यसम् ६ शठम् ७ आयसम् ८ निशितम् ९ तीव्रम् १० खड्गम् ११ मुण्डजम् १२ अयः १३ चित्रायसम् १४ चीनजम् १५ । अस्य गुणाः । रूक्षत्वम् । उष्णत्वम् । तिक्तत्वम् । वातपित्त- कफप्रमेहपाण्डुशूलनाशित्वम् । तीक्ष्णत्वम् । मुण्डाधिकगुणत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अथ लोहस्योत्पत्तिनामलक्षणगुणाः । “पुरा लोमिलदैत्यानां निहतानां सुरैर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालाय- सायसी । गुरुता दृढतोत्क्लेदकफदाहस्य कारिता । अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु ॥ लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥ कफं पित्तं गरं शूलं शोथार्शःप्लीहपाण्डुताः । मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि ॥ षण्डत्वकुष्ठामयमृत्युदं भवेत् हृद्रोगशूलौ कुरुतेऽश्मरीञ्च । नानारुजाञ्चापि तथा प्रकोपं करोति हृल्लासमशुद्धलोहम् ॥ जीवहारि मदकारि चायसं चेदशुद्धिमदसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति ॥” * ॥ तत्र सारलोहस्य लक्षणं गुणाश्च । “क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥ लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् । अर्द्धसर्व्वाङ्गजं वातं शूलञ्च परिणामजम् । छर्द्दिञ्च पीनसं पित्तं श्वासमाशु व्यपोहति ॥” अथ कान्तलोहस्य लक्षणं गुणाश्च । पत्पात्रे न प्रसरति जले तैलबिन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति चनिजं तिक्ततां निम्बकन्दः । तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहं तदुक्तम् ॥ गुल्मोदरार्शःशूलाममामवातं भगन्दरम् । कामलाशोथकुष्ठानि क्षयं कान्तमयो जयेत् ॥ स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥” इति मत्स्यसूक्ततन्त्रम् ॥ अपि च । “अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च । भृष्टादिकं मधु गुडं नारिकेलोदकन्तथा ॥ फलं मूलञ्च यत्किञ्चिदभक्ष्यं मुनिरब्रवीत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (अश्मन एवास्य उत्पत्तिः श्रूयते । यथा, मनुः । ९ । ३२१ । “अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुत्थितम् । तेषां सर्व्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥” पुं, छागः । स तु लक्षणान्वितः कृष्णवर्णो रक्त- वर्णो वा । यथा, मनुः । ३ । २७२ । “कालशाकं महाशल्काः खड्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥” पार्व्वत्यजातिविशेषः । यथा, महाभारते । २ । २७ । २५ । “लोहान् परमकाम्बोजानृषिकानुत्तरानपि । सहितांस्तान् महाराज व्यजयत् पाक- शासनिः ॥” रक्तवर्णे, त्रि । यथा, महाभारते । १ । १३६ । २३ । “भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्चबाणान् सुसंयुक्तान् स मुमोचैकबाणवत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=लोहः&oldid=163138" इत्यस्माद् प्रतिप्राप्तम्