लोहकिट्टम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लोहकिट्टम्, क्ली, (लोहस्य किट्टम् ।) लोहमलम् । तत्पर्य्यायः । किट्टम् २ लोहचूर्णम् ३ अयोमलम् ४ लोहजम् ५ कृष्णचूर्णम् ६ लोष्टम् ७ लोह- मलम् ८ । (यथा, सुश्रुते । ६ । ४४ । “मूत्रस्यितं सैन्धवसंप्रयुक्तं मांसं पिबेद्वापि हि लोहकिट्टम् ॥”) अस्य गुणाः । मधुरत्वम् । कटुत्वम् । उष्णत्वम् । कृमिवातपक्तिशूलमहच्छूलमेहगुल्मशोफनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टी सिंहाङ्गञ्च निगद्यते ॥ यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥” इति भावप्रकाशः ॥ (तथास्योद्धरणादिविधिः । “शतोर्द्ध्वमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम् । अधमं षष्टिवर्षोयं ततो हीनं विषोपमम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य- धिकारे ॥ “कुरवं पथ्याचूर्णं द्विपलगन्धाश्मलोहकिट्टञ्च । शुद्धरसस्यार्द्धपलं भृङ्गस्य रसं केशराजस्य ॥” इति वैद्यकचक्रपाणिसंग्रहे परिणामशूलाधि- कारे ॥)
