सामग्री पर जाएँ

लोहार्गलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोहार्गलम्, क्ली, (लोहस्य अर्गलमिव ।) तीर्थ- विशेषः । यथा, -- वराह उवाच । “शृणु देवि च तत्त्वेन यन्मां त्वं परिपृच्छसि । गुह्यमन्यच्च वक्ष्यामि महतः कर्म्मणो गतिः ॥ ततः सिद्धवटे गत्वा त्रिंशद्योजनदूरतः । म्लेच्छमध्ये वरारोहे हिमवन्तं समाश्रितम् ॥ तत्र लोहार्गलं नाम निवासो मे विधीयते । गुह्याः पञ्चदशा यत्र समन्तात् पञ्चयोजनम् ॥ सुलभं पुण्ययुक्तानां मम कर्म्मानुसारिणाम् । तत्र तिष्ठाम्यहं भद्रे ! उदीचीं दिशमास्थितः ॥ तत्र ब्रह्मा च रुद्रश्च स्कन्दन्द्रश्च मरुद्गणाः । आदित्या वसवो रुद्रा अश्विनौ च महौजसः ॥ सोमो बृहस्पतिश्चैव ये चान्ये च दिवौकसः । तेषाञ्चैवार्गलं दत्त्वा चक्रं गृह्य महौजसम् ॥ ततो मे दानवाः सर्व्वे क्रमन्तो लोकमुत्तमम् । मया चैवान्तरं कृत्वा कृत्वा मायाञ्च वैष्णवीम् ॥ शतकोटिसहस्राणि शीघ्रमेव निपातितम् । एवं लोहार्गलेत्यासीन्नाम मे तच्च कारितम् ॥ एकधारा पतत्यत्र इन्द्रगोपकसन्निभा । यस्तत्र कुरुते स्नानं सप्तरात्रोषितो नरः ॥ ब्रह्मलोकं समासाद्य ब्रह्मणा सह मोदते । अथात्र मुञ्चते प्राणानहङ्कारविवर्ज्जितः ॥ ब्रह्मलोकं परित्यज्य मम लोकं प्रपद्यते । गुह्याख्याने महाभागे क्षेत्रे लोहार्गले मम ॥ सिद्धिकामेन मर्त्येन गन्तव्यं नात्र संशयः ॥ एतत्ते कथितं भद्रे लीहार्गलनिवासिनः । माहात्म्यं पद्मपत्राक्षि गुह्यं पञ्चमहौजसम् । मङ्गल्यञ्च पवित्रञ्च मम भक्तसुखावहम् ॥” इत्यादि वराहपुराणे लोहार्गलमाहात्म्यवर्णनं नामाध्यायः ॥ * ॥ लौहकीलके क्ली स्त्री च ॥

"https://sa.wiktionary.org/w/index.php?title=लोहार्गलम्&oldid=163179" इत्यस्माद् प्रतिप्राप्तम्