लोहितः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लोहितः, पुं, (रुह + इतन् । रस्य लः ।) नद- विशेषः । (सागरविशेषश्च । यथा, रामायणे । ४ । ४० । ३९ । “ततो रक्तजलं भीमं लोहितं नाम सागरम् । गत्वा प्रेक्षत ताञ्चैव बृहतीं कूटशाल्म- लीम् ॥”) भौमः । (यथा, बृहत्संहितायाम् । ६ । ८ । “मध्येन यदि मघानां गतागतं लोहितः करोति ततः । पाण्ड्यो नृपो विनश्यति शस्त्रोद्योगाद्भयम- वृष्टिः ॥”) रक्तवर्णः । इति मेदिनी । ते, १४८ ॥ रोहित- मत्स्यः । मृगविशेषः । इति शब्दरत्नावली ॥ सर्पः । (यथा, महाभारते । २ । ९ । ८ । “वासुकिस्तक्षकश्चैव नागश्चैरावणस्तथा । कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्य्यवान् ॥”) सुरान्तरः । इति धरणिः ॥ मसूरः । इति शब्दचन्द्रिका ॥ रक्तालुः । रक्तशालिः । इति राजनिर्घण्टः ॥ (यथा, सुशुते । १ । ४६ । “षष्टिका यवगोधूमा लोहिता ये च शालयः । मुद्गाढकी मसूराश्च धान्येषु प्रवराः स्मृताः ॥”) बलभेदः । इति हेमचन्द्रः ॥ (पर्व्वतविशेषः । इति मात्स्ये । १२० । ११ ॥ कुशद्वीपस्थवर्ष- विशेषः । इति तत्रैव । १२१ । ६५ ॥)
लोहितः, त्रि, रक्तवर्णयुक्तः । इत्यमरः ॥ (यथा, मनुः । ५ । ६ । “लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा । शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्जयेत् ॥”)
