सामग्री पर जाएँ

लोहितकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लोहितकः, पुं, (लोहित एव । स्वार्थे कन् ।) मङ्गलग्रहः । इति शब्दमाला ॥ पद्मरागमणिः । इति हेमचन्द्रः ॥ (यथा, माघे । १३ । ५२ । “लयनेषु लोहितकनिर्म्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ॥” रक्तवर्णयुक्ते, त्रि । यथा, महाभारते । २ । ९ । ३ । “नीलपीतासितश्यामैः सितैर्लौहितकैरपि । अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=लोहितकः&oldid=163187" इत्यस्माद् प्रतिप्राप्तम्