लौहमलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लौहमलम्, क्ली, (लौहस्य मलम् ।) लोहमलम् । इति राजनिर्घण्टः ॥ (तथास्य विषयः । “सद्यो लौहमलाज्यमाक्षिकसिताभागाः समा मानतः पात्रे ताम्रमये दिनान्तमथितं संस्थापये- दातपे पश्चात्तद्घनतां प्रणीय रजनीमेकां बहिः स्थापयेत् । पात्रे ताम्रमये विधेयमथवा पात्रे बवि- र्भाविते ॥ पश्चान्माषचतुष्टयं प्रतिदिनं जग्ध्वा जलं शीतलम् । पेयं भोजनपूर्ब्बमध्यविरतोऽस्वच्छन्दभोज्यैर्नरैः ॥ जेतुं शूलहुताशमान्द्यकसनश्वासाम्लपित्तज्वरो- न्मादापस्मृतिमेहसर्व्वजठराजीणादि सर्व्वा रुजः ॥” इति भैषज्यधन्वन्तरौ शूले चतुःसममण्डूरम् ॥)
