विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ळ, शेषलकारः । गौडदेशे अस्याकारोच्चारणयो- र्भेदो नास्ति । किन्त्वस्याध एकबिन्दुमात्रचिह्नं क्रियते । वेदे अस्य उच्चारणस्थाणं जिह्वामूलम् । देवनागरवर्णमालायां अस्याकारः एवं प्रकारः ळ । अस्य प्रयगः । अग्निमीले । हे इन्द्र वोलु चित् । इत्यादि ऋग्वेदः ॥ * ॥ तन्त्रे वर्ण- मालाजपे अस्य प्रयोजनम् । यथा, -- “अनुलोमविलोमेन कॢप्तया वर्णमालया । आदिलान्त लादि आन्तक्रमेण परमेश्वरि ! । क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन ॥” इति मुण्डमालातन्त्रम् ॥ मातृकान्यासेऽपि अस्य प्रयोजनम् । तत्प्रमाणं मातृकाशब्दे द्रष्टव्यम् ॥ * ॥ तस्य नामानि यथा, “लः पृथ्वी विमला मेघो अनन्तोऽव्यवहासिता । व्यापिनी शिवदा केतुर्ज्जगत्सारतरं हठः ॥ ग्लौर्मृडानी च वेदार्थसारो नारायणः स्वयम् । जठरो नकुलिः पीता शिवेशोऽनङ्गमालिनी ॥” इति श्रीनन्दनभट्टाचार्य्यविरचितवर्णाभिधानम् ॥ अपि च । “लकारो विमलो जीवः शिवमूमिर्व्वरानने ! ॥” इति श्रीरुद्रयामले ८ पटले मन्त्राभिधानम् ॥ कोषः श्रीवरदाप्रसादवसुना श्रीशब्दकल्पद्रुमो यश्च श्रीहरिपूर्ब्बकेण चरणेनाकल्पितो यत्नतः । सोऽयं कोविदवारिदैर्बहुगुणैः संसेचितः सन्ततं सन्तोषं नयतु क्षितौ बुधगणान् पेयूषगर्भैः फलैः ॥ रसेन्दुनागोडुपतिप्रमाणे शाके शुभेऽस्मिन् भगवत्प्रसादात् । नीतः समप्तिं बहुलप्रयासैः स शब्दकल्पद्रुम एष कोषः ॥ समाप्तोऽयं शब्दकल्पद्रुमः ।

"https://sa.wiktionary.org/w/index.php?title=ळ&oldid=507741" इत्यस्माद् प्रतिप्राप्तम्