वंशपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपत्रः, पुं, (वंशस्य पत्राणीव पत्राण्यस्य ।) नलः । इति राजनिर्घण्टः ॥ (वंशस्य पत्रम् ।) वंशस्य दले, क्ली ॥ (हरितालम् । यथा, -- “तालकं वंशपत्राख्यं कुष्माण्डसलिले क्षिपेत् । सप्तधा वा त्रिधा वापि दध्यम्लेन च वा पुनः ॥ शोधयित्वा पुनः शुष्कं चूर्णयेत्तण्डुलाकृति । ततः शरावके पात्रे स्थापयेत् कुशलो भिषक् ॥ वदरीपत्रकल्केन सन्धिलेपञ्च कारयेत् । अरुणाभमधःपात्रं तावज्जाला प्रदीयते ॥ स्वाङ्गशीतं समुद्धृत्य माणिक्याभो भवेद्रसः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे कुष्ठाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=वंशपत्र&oldid=163263" इत्यस्माद् प्रतिप्राप्तम्