वग्नुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वग्नुः, पुं, (वक्ति इति । वच् + “वचेर्गश्च ।” उणा० ३ । ३३ । इति नुः गश्चान्तादेशः ।) वक्ता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ वावदूकः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (शब्दः । यथा, ऋग्वेदे । ७ । १०३ । २ । “गवामाहनमायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रासमेति ॥” “मण्डूकानां वग्नुः शब्दः समेति सङ्गच्छते ॥” इति तद्भाष्ये सायणः ॥)
