सामग्री पर जाएँ

वङ्गालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वङ्गालः, पुं, भैरवरागस्य पुत्त्रः । यथा, -- “वङ्गालः पञ्चमः षष्ठो मधुरो हर्षकस्तथा । देशाख्यो माधवः सिन्धुर्भैरवपुत्त्राः प्रकी- र्त्तिताः ॥” अस्य ध्यानम् । “कक्षानिवेशितकरण्डवरस्तपस्वी भास्वत्त्रिशूलपरिमण्डितवामहस्तः । भस्मोज्ज्वलो निविडबद्धजटाकलापो वङ्गाल इत्यभिहितस्तरुणार्कवर्णः ॥ षाडवो देववङ्गालो गृहांशन्यासमध्यमः । प्रहर्षे विनियोक्तव्यः प्रोक्तोऽयं मुनिना स्वयम् ॥” इति सङ्गीतरत्नाकरः ॥

"https://sa.wiktionary.org/w/index.php?title=वङ्गालः&oldid=163424" इत्यस्माद् प्रतिप्राप्तम्