वचनेस्थितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वचनेस्थितः, त्रि, (वचने तिष्ठति स्मेति । स्था + “गत्यर्थेति ।” ३ । ४ । ७२ । इति क्तः । “तत्पुरुषे कृति बहुलम् ।” ६ । ३ । १४ । इति सप्तम्या अलुक् ।) वचने तिष्ठति यः । वचनस्थः । तत्पर्य्यायः । विधेयः २ विनयग्राही ३ आश्रवः । इत्यमरः । ३ । १ । २४ ॥ वश्यः ५ प्रणेयः ६ । इति केचि- दिति भरतः ॥
