वज
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) वजति । इति दुर्गादासः ॥
वज, क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) अयं मार्गणसंस्कारे इति प्राञ्चः । मार्गणस्य शरस्य पक्षादिना संस्कारो मार्गणसंस्कारः । क, वाजयति पक्षै- र्बाणं काण्डकारः । इति रमानाथः ॥ मार्गण- संस्कारयोरिति कश्चित् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वज¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। वजति। अवाजीत्--अव-जीत ववजतुः।
वज¦ शरसंस्कारे गतौ च चुरा॰ उभ॰ सक॰ सेट्। वाजयति ते अवीवजत् त।