वज्रक्षारम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वज्रक्षारम्, क्ली, (वज्रसंज्ञकं क्षारमिति ।) क्षार- विशेषः । तत्पर्य्यायः । वज्रकम् २ क्षार- श्रेष्ठम् ३ विदारकम् ४ सारः ५ चन्दनारः ६ धूमोत्थम् ७ धूमजाङ्गकम् ८ । अस्य गुणाः । अत्युष्णत्वम् । तीक्ष्णत्वम् । क्षारत्वम् । रेचन- त्वम् । गुल्मोदरार्त्तिविष्टम्भश्रमप्रशमनत्वम् । सरत्वञ्च । इति राजनिर्घण्टः ॥ (भक्षणीयौषध- विशेषः । तद्यथा, -- “सामुद्रं सैन्धवं काचं यवक्षारं सुवर्च्चलम् । टङ्गणं सर्ज्जिका क्षारं तुल्यं सर्व्वं विचूर्णयेत् ॥ अर्कक्षीरैः स्नुहीक्षीरैरातपे भावयेत् त्र्यहम् । तेन लिप्त्वार्कपत्रञ्च रुद्ध्वा चान्तः पुटे पचेत् ॥ तत् क्षारं चूर्णयेत् पश्चात् त्र्यूषणस्त्रिफलारजः । जीरकं रजनी वह्रि नवभागं समं समम् ॥ क्षारार्द्धमेवं सर्व्वञ्च एकीकृत्य प्रयोजयेत् । वज्रक्षारमिदं सिद्धं स्वयं प्रोक्तं पिनाकिना ॥ सर्व्वोदरेषु गुल्मेषु शूलदोषेषु योजयेत् । अग्निमान्द्येऽप्यजीर्णेऽपि भक्ष्यं निष्कद्बयं द्वयम् ॥ वाताधिके जलं कोष्णं घृतं वा पैत्तिके हितम् । कफे गोमूत्रसंयुक्तमारनालं त्रिदोषजे ॥” इति वैद्यकरसेन्द्रसारसंग्रहे प्लीहाधिकारे ॥ * ॥)
