सामग्री पर जाएँ

वज्रतुण्डः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वज्रतुण्डः, पुं, (वज्रं वज्रतुल्यं कठिनन्तुण्डं यस्य ।) गरुडः । गणेशः । इति त्रिकाण्डशेषः ॥ गृध्रः । मशकः । इति राजनिर्घण्टः ॥ (वज्रतुण्डधरे, त्रि । यथा, भागवते । ५ । २६ । ३५ । “यस्त्विह वा अतिथीनभ्यागतान् वा गृहपति- रसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्रकङ्क काकवटादयः प्रसहोरुबला- दुत्पाटयन्ति ॥”)

"https://sa.wiktionary.org/w/index.php?title=वज्रतुण्डः&oldid=163479" इत्यस्माद् प्रतिप्राप्तम्