वज्रपाणिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वज्रपाणिः, पुं, (वज्रं पाणौ यस्य ।) इन्द्रः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ६ । १९ । ७ । “एष व्यूहामि ते व्यूहं राजसत्तम दुर्ज्जयम् । अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥” ब्राह्मणः । यथा, महाभारते । १ । १७१ । ५१ । “वज्रपाणिर्ब्राह्मणः स्यात् क्षत्त्रं वज्ररथं स्मृतम् । वैश्या वै दानवज्राश्च कर्म्मवज्रा यवीयसः ॥”)
