वञ्जुलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वञ्जुलः, पुं, (वजतीति । वज गतौ + बाहुलकात् । उलच् नुम्च ।) तिनिशवृक्षः । (तथास्य पर्य्यायः । “तिनिशः स्यन्दनो नेमी रथद्रुर्व्वञ्जुलस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अशोकवृक्षः । इत्यमरः । २ । ४ । २७ ॥ स्थलपद्मवृक्षः । इति शब्दरत्नावली ॥ पक्षि- विशेषः । इति हलायुधः ॥ वेतसवृक्षः । इति मेदिनी । ले, १२९ ॥ (अस्य पर्य्यायो यथा, -- “वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा । अभ्रपुष्पश्च विदुलो ह्यथ शीतश्च कीर्त्तितः ॥” इति भावप्रकाशः ॥ यथा च रामायणे । ६ । ४ । ७९ । “चिरविल्वा मधूकाश्च वञ्जुला वकुलास्तथा ॥”)
