वट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वट, वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) वटति वृक्षं लता । इति दुर्गा- दासः ॥

वट, इ स्तेये । सौत्रधातुरयम् । इति कविकल्प- द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् । इदित् ।) इ, वण्टकः । इति दुर्गादासः ॥

वट, इ कि वण्टने । इति कविकस्त्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।) वण्टनं विभागः । इ, वण्ट्यते । कि, वण्टयति वण्टति । वण्टन्ति हाटकं यस्मात् प्राप्य विप्राः परस्परम् । इति हलायुधः । अयं चुरादौ कैश्चिन्न पठ्यते । इति दुर्गसिंहादयः । इति दुर्गादासः ॥

वट, त् क वेष्टे । भागे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) वटयति । इति दुर्गादासः ॥

वट, म उक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) म, वटयति । इति दुर्गा- दासः ॥

वटः, पुं, (वटति वेष्टयति मूलेन वृक्षान्तरमिति ।) वट् + पचाद्यच् ।) वृक्षविशेषः । वड्गाछ इति भाषा । तत्पर्य्यायः । न्यग्रोधः २ बहु- पात् ३ । इत्यमरः । २ । ४ । ३२ ॥ वृक्षनाथः ४ यमप्रियः ५ । इति शब्दरत्नावली ॥ रक्त- फलः ६ शृङ्गी ७ कर्म्मजः ८ ध्रुवः ९ क्षीरी १० वैश्रवणावासः ११ भाण्डीरः १२ । इति जटा- धरः ॥ जटालः १३ रोहिणः १४ अवरोही १५ विटपी १६ स्कन्धरुहः १७ मण्डली १८ महा- च्छायः १९ भृङ्गी २० यक्षावासः २१ यक्षतरुः २२ पादरोहणः २३ नीलः २४ शिफारुहः २५ बहुपादः २६ वनस्पतिः २७ । अस्य गुणाः । कषायत्वम् । मधुरत्वम् । शिशिरत्वम् । कफ- पित्तज्वरदाहतृषामोहव्रणशोफनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः । वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत् ॥” इति भावप्रकाशः ॥ * ॥ स च रुद्रस्वरूपः । यथा, -- ऋषय ऊचुः । “कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ । सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ ॥ सूत उवाच । अश्वत्थरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥ दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः । दुःखापद्व्याधिदुष्टानां विनाशकारिणौ ध्रुवम् ॥” इति पाद्मोत्तरखण्डे १६० अध्यायः ॥ अन्यत् पलाशशब्दे द्रष्टव्यम् ॥ * ॥ कपर्द्दः । इति मेदिनी । टे, २४ ॥ कडि इति भाषा ॥ गोलः । भक्ष्यम् । वडा इति भाषा । साम्यम् । इति हेमचन्द्रः ॥ * ॥ क्ली, व्रजमण्डलाभ्यन्तरीणवट- संज्ञकषोडशवनानि यथा । अथैषां षट्- साङ्गवनानामभ्यन्तरे सङ्केतवटाद्या यमुनाया- श्चतुरशीतिक्रोशमर्य्यादान्तरे दक्षिणोत्तरतटयोः षोडशवनानि । पाद्मे । “सङ्केतवटमादौ तु भाण्डीराख्यं वटं द्वयम् । यावकाख्यं तृतीयञ्च वटं शृङ्गारसंज्ञकम् ॥ तूर्य्यं वंशिवटं श्रेष्ठं पञ्चमं श्रीवटञ्च षट् । सप्तमञ्च जटाजूटं कामाख्यवटमष्टकम् ॥ मनोऽर्थवटकं नाम नवमं परिकीर्त्तितम् । आशावटं महाश्रेष्ठं दशमं शुभदायकम् ॥ अशोकाख्यं वटं श्रेष्ठमेकादशमुदाहृतम् । नाम केलिवटं श्रेष्ठं द्बादशं परिकीर्त्तितम् ॥ नाम ब्रह्मवटञ्चैव त्रयोदशमसंज्ञकम् । नाम रुद्रवटं श्रेष्ठं चतुद्दशमुदाहृतम् ॥ श्रीधराख्यं वटं ख्यातं पञ्चदशसमीरितम् । मावित्राख्यं वटं श्रेष्ठं संख्याषोडशनिर्म्मितम् ॥” इति व्रजमण्डलान्तरे षोडशवटानि । इति नारायणभट्टकृतव्रजभक्तिविलासः ॥ * ॥

वटः, त्रि, (वटतीति । वट् + अच् ।) गुणः । इति मेदिनी । टे, २४ ॥ वेटे इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वट पुं।

वटवृक्षः

समानार्थक:न्यग्रोध,बहुपाद्,वट

2।4।32।2।6

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

अवयव : न्यग्रोधस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वट¦ वेष्टने भागे च अद॰ चुरा॰ उभ॰ सक॰ सेट्। वटयति ते। अववटत् त।

वट¦ वेष्टने भ्वा॰ पर॰ सक॰ सेट्। वटति। अवटीत् अवाटीत् ववटतुः।

वट¦ विभाजने वा चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट् इदित्। वण्टयति ते वण्ठति। अववण्टत् त अवण्टीत्।

वट¦ कथने भ्वा॰ पर॰ द्विक॰ सेट् घटा॰। वटयति अवाटीत्अवटीत्। ववटतुः।

वट¦ स्तेये लौ॰ पर॰ सक॰ सेट् इदित्। वण्टति अवण्टीत्।

वट¦ पु॰ वट--अच्।

१ स्वनामख्याते वृक्षे अमरः

२ शण-निर्मिततन्तौ च त्रि॰। (वें टे) मेदि॰। वटवृक्षस्य रुद्ररूपत्वमश्वत्थशब्दे

५१

७ पृ॰ उक्तम्।
“वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः। वर्ण्योविसर्पदाहघ्नः कषायो योनिदोषकृत्” भावप्र॰।

३ साम्येहेमच॰।

४ कपर्दे

५ गोले

६ भक्ष्यभेदे (वडा) मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वट¦ Subst. mfn. (-टः-टी-टं) A string, a rope, a tie. m. (-टः)
1. The large Indian fig-tree, (Ficus benghalensis.)
2. A round figure, a circle, a cipher, a ball or globe.
3. Pulse ground and fried with oil or butter.
4. A small shell, a cowrie.
5. Equality in shape or dimen- sion. E. वट् to surround, to tie, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वटः [vaṭḥ], [वट्-अच् Uṇ.4.116] The fig-tree; अयं च चित्रकूट- यायिनि वर्त्मनि वटः श्यामो नाम U.1; R.13.53.

A small shell or cowrie.

A small ball, globule, pill.

A round figure, a cipher.

A kind of cake; पयःस्मिता मण्डकमण्डनाम्बरा वटाननेन्दुः पृथुलड्डु स्तनी N.16.17.

A string, rope; (n. also in this sense).

Equality in shape.

A sort of bird, flying fox ? (Mar. वटवाघुळ); कङ्कगृध्रवटश्येनभासभल्लकबर्हिणः Bhāg.3.1.24.

A pawn (in chess).

Sulphur. -Comp. -पत्रम् a variety of the white basil. (-त्रा) a jasmine. -वासिन् m. a Yakṣa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वट m. (perhaps Prakrit for वृत, " surrounded , covered " ; See. न्यग्-रोध)the Banyan or Indian fig. tree (Ficus Indica) MBh. Ka1v. etc. RTL. 337 (also said to be n. )

वट m. a sort of bird BhP.

वट m. a small shell , the Cypraea Moneta or cowry L.

वट m. a pawn (in chess) L.

वट m. sulphur L.

वट m. = साम्यL.

वट m. N. of a तीर्थVishn2.

वट m. of one of स्कन्द's attendants MBh.

वट m. the son of a वैश्यand a Venuki L. (also n. and f( ई). )

वट m. a string , rope , tie L. (only वटibc. , and पञ्च-व्, See. )

वट m. a small lump , globule etc. = वटकS3a1rn3gS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--a sacred tree in प्रयागा, protected by शूलपाणि; फलकम्:F1: M. १०४. १०; वा. १०८. ५७.फलकम्:/F he who dies underneath the tree goes to Rudraloka; फलकम्:F2: M. १०६. ११.फलकम्:/F the residence of the १२ A1dityas at; फलकम्:F3: Ib. १०६. १२.फलकम्:/F वट itself is महेश्वर. फलकम्:F4: Ib. १११. १०; वा. १११. ८८-82.फलकम्:/F [page३-141+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Vaṭa : m.: A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, listed by Sūta among those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega) and ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.

_______________________________
*3rd word in right half of page p51_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=वट&oldid=507192" इत्यस्माद् प्रतिप्राप्तम्