सामग्री पर जाएँ

वटः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वटः, पुं, (वटति वेष्टयति मूलेन वृक्षान्तरमिति ।) वट् + पचाद्यच् ।) वृक्षविशेषः । वड्गाछ इति भाषा । तत्पर्य्यायः । न्यग्रोधः २ बहु- पात् ३ । इत्यमरः । २ । ४ । ३२ ॥ वृक्षनाथः ४ यमप्रियः ५ । इति शब्दरत्नावली ॥ रक्त- फलः ६ शृङ्गी ७ कर्म्मजः ८ ध्रुवः ९ क्षीरी १० वैश्रवणावासः ११ भाण्डीरः १२ । इति जटा- धरः ॥ जटालः १३ रोहिणः १४ अवरोही १५ विटपी १६ स्कन्धरुहः १७ मण्डली १८ महा- च्छायः १९ भृङ्गी २० यक्षावासः २१ यक्षतरुः २२ पादरोहणः २३ नीलः २४ शिफारुहः २५ बहुपादः २६ वनस्पतिः २७ । अस्य गुणाः । कषायत्वम् । मधुरत्वम् । शिशिरत्वम् । कफ- पित्तज्वरदाहतृषामोहव्रणशोफनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः । वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषहृत् ॥” इति भावप्रकाशः ॥ * ॥ स च रुद्रस्वरूपः । यथा, -- ऋषय ऊचुः । “कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ । सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ ॥ सूत उवाच । अश्वत्थरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥ दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः । दुःखापद्व्याधिदुष्टानां विनाशकारिणौ ध्रुवम् ॥” इति पाद्मोत्तरखण्डे १६० अध्यायः ॥ अन्यत् पलाशशब्दे द्रष्टव्यम् ॥ * ॥ कपर्द्दः । इति मेदिनी । टे, २४ ॥ कडि इति भाषा ॥ गोलः । भक्ष्यम् । वडा इति भाषा । साम्यम् । इति हेमचन्द्रः ॥ * ॥ क्ली, व्रजमण्डलाभ्यन्तरीणवट- संज्ञकषोडशवनानि यथा । अथैषां षट्- साङ्गवनानामभ्यन्तरे सङ्केतवटाद्या यमुनाया- श्चतुरशीतिक्रोशमर्य्यादान्तरे दक्षिणोत्तरतटयोः षोडशवनानि । पाद्मे । “सङ्केतवटमादौ तु भाण्डीराख्यं वटं द्वयम् । यावकाख्यं तृतीयञ्च वटं शृङ्गारसंज्ञकम् ॥ तूर्य्यं वंशिवटं श्रेष्ठं पञ्चमं श्रीवटञ्च षट् । सप्तमञ्च जटाजूटं कामाख्यवटमष्टकम् ॥ मनोऽर्थवटकं नाम नवमं परिकीर्त्तितम् । आशावटं महाश्रेष्ठं दशमं शुभदायकम् ॥ अशोकाख्यं वटं श्रेष्ठमेकादशमुदाहृतम् । नाम केलिवटं श्रेष्ठं द्बादशं परिकीर्त्तितम् ॥ नाम ब्रह्मवटञ्चैव त्रयोदशमसंज्ञकम् । नाम रुद्रवटं श्रेष्ठं चतुद्दशमुदाहृतम् ॥ श्रीधराख्यं वटं ख्यातं पञ्चदशसमीरितम् । मावित्राख्यं वटं श्रेष्ठं संख्याषोडशनिर्म्मितम् ॥” इति व्रजमण्डलान्तरे षोडशवटानि । इति नारायणभट्टकृतव्रजभक्तिविलासः ॥ * ॥

वटः, त्रि, (वटतीति । वट् + अच् ।) गुणः । इति मेदिनी । टे, २४ ॥ वेटे इति भाषा ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वटः [vaṭḥ], [वट्-अच् Uṇ.4.116] The fig-tree; अयं च चित्रकूट- यायिनि वर्त्मनि वटः श्यामो नाम U.1; R.13.53.

A small shell or cowrie.

A small ball, globule, pill.

A round figure, a cipher.

A kind of cake; पयःस्मिता मण्डकमण्डनाम्बरा वटाननेन्दुः पृथुलड्डु स्तनी N.16.17.

A string, rope; (n. also in this sense).

Equality in shape.

A sort of bird, flying fox ? (Mar. वटवाघुळ); कङ्कगृध्रवटश्येनभासभल्लकबर्हिणः Bhāg.3.1.24.

A pawn (in chess).

Sulphur. -Comp. -पत्रम् a variety of the white basil. (-त्रा) a jasmine. -वासिन् m. a Yakṣa.

"https://sa.wiktionary.org/w/index.php?title=वटः&oldid=235151" इत्यस्माद् प्रतिप्राप्तम्