वटक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटकः, पुं, (वट एव । स्वार्थे कन् ।) पिष्टक- विशेषः । इत्यमरभरतौ ॥ वडा इति भाषा । अस्य गुणौ । विदाहित्वम् । तृष्णाकारित्वञ्च । इति राजवल्लभः ॥ अपि च । “माषाणां पिष्टिकां युक्तां लवणार्द्रकहिङ्गुभिः । कृत्वा विदध्याद्वटकांस्तांस्तैलेषु पचेच्छनैः ॥ विशुष्का वटका बल्या बृंहणा वीर्य्यवर्द्धनाः । वातामयहरा रुच्या विशेषादर्दितापहाः ॥ विबन्धभेदिनः श्लेष्मकारिणोऽत्यग्निपूजिताः । संचूर्ण्य निक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च ॥ लवणं तत्र वटकान् सकलानपि मज्जयेत् । शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः ॥ विबन्धकृद्विदाही च श्लेष्मलः पवनापहः । राज्यक्तयातिरोचिन्या पाचन्या तांस्तु भक्षयेत् ॥ तत्प्रकारा यथा । कदलसुमनमाषक्षोदसत्सीरिशस्यै- र्म्मरिचसुघनदुग्धैः सच्चतुर्ज्जातचन्द्रैः । कृत इह घृतपक्वो यः पतेत् खण्डपाके वटकममृतकेलिं सा व्यधात्तं प्रियेष्टम् ॥ १ ॥ सामिक्षैः शालिचूर्णैर्दधिमरिचसितानारिकेला- र्द्रशस्यै- र्जात्येलासल्लवङ्गामृतकदलफलैः फेणितैः पिष्टमुद्गैः । सृष्टः पक्वो घृते यः प्रपतति समधौ दुग्धपूरे प्रगाढे सेन्दौ कर्पूरकेलिं तमिह मुवटकं सा व्यधात् स्वप्रियेष्टम् ॥ २ ॥ ग्रन्थिवद्बटिकालिस्तैर्द्रव्यैः सृष्टा तु या पतेत् । पञ्चामृते व्यधात्तां सा पीयूषग्रन्थिपालिकाम् ॥ ३ सक्षीरसारशशितण्डूलनारिकेल- जातीलवङ्गमरिचैः ससितैः सुपिष्टैः । रम्भैलया च घृतभावनया भवेद्या सा तामनङ्गगुटिकां विदधे प्रियेष्टाम् ॥ ४ ॥ कदलमरिचदुग्धैः खण्डगोधूमपक्व- प्रकटितवटकोऽयं भूरिजातीफलाढ्यः । नवविधुमधुमध्ये यो विलासं विधत्ते रचित इह तयासौ सीधुपूर्व्वो विलासः ॥ ५ ॥ लवङ्गैलेन्द्वमरिचैः संयुतैः शर्कराचयैः । चक्रे गङ्गाजलाख्यानि लड्डुकान्यपराणि च ॥ ६ तैस्तैर्युतैः क्षीरसारैस्तथा लाङ्गलिशस्यकैः । अन्यान्यप्याज्यसंभृष्टैः सा रसैः सरपूपिका ॥” ७ इति रघुनाथभट्टकृते गोविन्दलीलामृते १९ सर्गः ॥ * ॥ अथाम्लिकावटकः । “अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत् । तन्नीरे कृतसंस्कारे वटकान् मज्जयेज्जनः ॥ अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः । वटकस्य गुणेः पूर्व्वैरेतेऽपि च समन्विताः ॥ * ॥ अथ तक्रवटकः । मुद्गानां वटकास्तक्रे मज्जिता लघवो हिमाः । संस्कारजप्रभावेण त्रिदोषशमना हिताः ॥ * ॥ अथ माषवटकः । माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृताः । तया विरचिता वस्त्रे वटिकाः साधु शोषिताः ॥ तालितास्तप्ततैले ता अथवा सुप्रलेहिताः । वटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ॥ * अथ कुष्माण्डवटिः । कुष्माण्डकवटी ज्ञेया पूर्व्वोक्तवटिकागुणा । विशेषात् पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ॥ अथ मुद्गवटिका । मुद्गानां वटिका तद्वद्द्रविता साधिता तथा । पथ्या रुच्या ततो लघ्वी मुद्गसूपगुणा स्मृता ॥” इति भावप्रकाशः ॥ * ॥ (वटी । वडि इति भाषा ॥ यथा, -- “वटका अथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको वटिका पिण्डी गुडोवर्त्तिस्तथोच्यते ॥ लेहवत् साध्यते वह्रौ गुडो वा शर्कराथवा । गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥ यथा च । “मण्डूरं चूर्णयेच्छुद्धं गोमूत्रेऽष्टगुणे क्षिपेत् । पक्त्वा च वटकं कृत्वा दद्यात्तक्रानुपानतः ॥” इति शार्ङ्गधरे मध्यखण्डे सप्तमेऽध्याये मण्डूर वटके ॥ * ॥) अष्टमाषकपरिमाणम् । यथा, -- “दशगुञ्जास्तु माषः स्यात् शाणो माषचतुष्टयम् । द्वौ शाणौ वटकः कोणस्तोलको द्रङ्खणश्च सः ॥” इति शब्दमाला ॥ (तथा च । “माषेश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते । टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते । क्षुद्रको वटकश्चैव द्रङ्क्षणः स निगद्यते ॥” इति शार्ङ्गधरे पूर्व्वखण्डे प्रथमेऽध्याये ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटक¦ पु॰ वट--क्वुन्। पिष्टकभेदे (वडा) भावप्र॰ कृतान्नशब्दे
२१
८२ पृ॰ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटक¦ m. (-कः)
1. Pulse ground and fried in oil or butter.
2. A weight of eight Ma4sha4s. f. (-टिका) A pill. E. वट् to surround, aff. क्वुन् |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटकः [vaṭakḥ], 1 A kind of cake.
A small lump, ball, globule, pill.
A particular weight of 8 māṣas.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटक mn. a small lump or round mass , ball , globule , pill , round cake made of pulse fried in oil or butter Vas. Sus3r.
वटक m. a particular weight (= 8 Mashas or 2 शणs) , Sarn3gS.
