वटपत्री
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटपत्री, स्त्री, (वटस्येव पत्रं यस्याः । गौरादि- त्वात् ङीष् ।) पाषाणभेदीविशेषः । तत्पर्य्यायः । इनानी २ ऐरावती ३ गोधावती ४ इरावती ५ श्यामा ६ खट्टाङ्गनामिका ७ । अस्याः गुणाः । हिमत्वम् । गोल्यत्वम् । मेहकृच्छ्रविनाशित्वम् । बलदातृत्वम् । व्रणहन्तृत्वम् । किञ्चिद्दीपन- कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वटपत्री तु कथिता मोहिन्यैरावती बुघैः । वटपत्री कषायोष्णा योनिमूत्रगदापहा ॥” इति भावप्रकाशः ॥
