वटुक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटुकः, पुं, (वटु + स्वार्थे संज्ञायां वा कन् ।) बालकः । इति शब्दरत्नावली ॥ (यथा, पाद्मे कृष्णचतुर्द्दशीकृत्ये । “कुमारीवटुकान् पूज्य तथा शैवतपोधनान् । राजसूयफलं तेन प्राप्यते नात्र संशयः ॥” ब्रह्मचारी । यथा, भागवते । १० । ८८ । २७ । “तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्द्दनः । दूरात् प्रत्युदियाद् भूत्वा वटुको योग- मायया ॥”) भैरवविशेषः । (यथा, महानिर्व्वाणतन्त्रे । २ । २४ । “भैरवाश्चैव वेताला वटुका नायिकागणाः । शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतादयः ॥”) अस्य मन्त्रादिर्यथा, -- “उद्धरेद्बटुकं ङेऽन्तमापदुद्धारणं तथा । कुरुद्बयं पुनर्ङेऽन्तं वटुकञ्च समुद्धरेत् । एकविंशत्यक्षरात्मा शक्तिरुद्धो महामनुः ॥” अस्य पूजा । प्रातःकृत्यादिप्राणायामान्तं विधाय पीठन्यासं कुर्य्यात् । यथा । धर्म्मादि- अनैश्वर्य्यान्तं देहे विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । यथा शिरसि ओ~ बृहदारण्यकऋषये नमः । मुखे गायत्त्रीच्छन्दसे नमः । हृदि वटुकभैरवाय देवतायै नमः । ततो मूर्त्ति- न्यासः । ह्रों वों ईशानाय नमोऽङ्गुष्ठयोः । ह्रें वें तत्पुरुषाय नमस्तर्ज्जन्योः । हुं वु अघो- राय नमो मध्यमयोः । ह्रिं विं वामदेवाय नमोऽनामिकयोः । ह्रं वं सद्योजाताय नमः कनिष्ठयोः । पुनस्तत्तदङ्गुलीभिः शिरोवदन- हृद्गुह्यपादेषु तत्तद्बीजादिकास्तत्तन्मूर्त्ती- र्न्यसेत् । तथोर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च तान् न्यसेत् । तथा च निबन्धे । क्षेत्रपालः पृष्ठदेशं क्षेत्राख्यो नाभितस्तथा ॥ कटीं पापौघनाशश्च वटुको लिङ्गदेशकम् । गुदं रक्षाकरः पातु ऊरू रक्षाकरः सदा ॥ जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः ॥ गुल्फौ च पादुकासिद्धः पादपृष्ठं सुरेश्वरः ॥ आपादमस्तकञ्चैव आपदुद्धारणस्तथा । सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ पातु मां वटुको देवो भैरवः सर्व्वकर्म्मसु । पूर्ब्बस्यामसिताङ्गो मे दिशि रक्षतु सर्व्वदा ॥ आग्नेय्याञ्च रुरुः पातु दक्षिणे चण्डभैरवः । नैरृत्यां क्रोधनः पातु मामुन्मत्तस्तु पश्चिमे ॥ वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः । भीषणो भैरवः पातूत्तरस्यां दिशि सर्व्वदा ॥ संहारभैरवः प तु दिश्यैशान्यां महेश्वरः । ऊर्द्धे पातु विधाता वै पाताले नन्दिको विभुः ॥ सद्योजातस्तु मां पायात् सर्व्वतो देवसेवितः । वामदेवोऽवतु प्रीतो रणे घोरे तथावतु ॥ जले तत्पुरुषः पातु स्थले पातु गुरुः सदा । डाकिनीपुत्त्रकः पातु दारांस्तु लाकिनीसुतः ॥ पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः । लाकिनीपुत्त्रकः पातु पशूनश्वानजांस्तथा ॥ महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः । राज्यं राज्यश्रियं पायात् भैरवो भीति- हारकः ॥ रक्षाहीनन्तु यन् स्थानं वर्जितं कवचेन च । तत् सर्व्वं रक्ष मे देव त्वं यतः सर्व्वरक्षकः ॥ एतत् कवचमीशान तव स्नेहात् प्रकाशितम् । नाख्येयं नरलोकेषु सारभूतञ्च सुश्रियम् ॥ यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम् । न देयं परशिष्येभ्यः कृपणेभ्यश्च शङ्कर ॥ यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम् ॥ अनेन कवचेशेन रक्षां कृत्वा द्बिजोत्तमः । विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः ॥ मन्त्रेण म्रियते योगी कवचं यन्न रक्षितः । तस्मात् सर्व्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ भूर्जे रम्भात्वचे वापि लिखित्वा विधिवत् प्रभो । धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः । सम्प्राप्नोति प्रभावं वै कवचस्यास्य वर्णितम् ॥ नमो भैरवदेवाय सारभूताय वै नमः । नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥” इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव- भैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटुक¦ पु॰ वट--उक।
१ वालके शब्दर॰
२ भैरवभेदे च तन्त्रम्
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटुक¦ m. (-कः)
1. A lad, a young man in general, or one fit to receive the sacrificial thread.
2. A religious student.
3. A stupid fellow, a blockhead. E. कन् added to the preceding.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वटुकः [vaṭukḥ], 1 A boy, lad.
A Brahmachārin.
(fig.) A fool or blockhead.
