सामग्री पर जाएँ

वडभी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वडभी, स्त्री, (वड्यते आरुह्यतेऽत्रेति । वड् + बाहु- लकात् अभिच् । कृदिकारादिति ङीष् ।) गृहचूडा । इत्यमरः ॥ मुदनि । इति भाषा । तत्पर्य्यायः । गोपानसी २ । इति तट्टीकासार- सुन्दरी ॥ चन्द्रशालिका ३ कूटागारम् ४ । इति त्रिकाण्डशेषः ॥ “चन्द्रशाला च वडभी स्यातां प्रासादमूर्द्धनि ॥” इति श्रीधरः ॥ खेलायां वडभौ चूडा । इति रुद्रः ॥ “वडभी चन्द्रशालेति प्रासादादौ च मण्डपे ॥” इति कोषान्तरम् ॥ “शुद्धान्ते वडभी चन्द्रशाले सौधोर्द्ध्ववेश्मनि ॥” इति रभसः ॥ ह्रस्वान्तापि वडभिः । तां कस्याञ्चिद्भवनवडभौ सुप्तपारावतायामिति । मेघदूतम् । ४० ॥ वडभिः वडभी वलभिः वलभी चेति चातूरूप्य- मिति वृद्धाः । इति भरतः ॥ (यथा, हरिवंशे । ८४ । ११ । “सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः । क्रियन्तां मञ्चवाटाश्च वडभ्यो वीथयस्तथा ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वडभी f. = वलभि, भी(See. ) Hariv. R. Megh.

"https://sa.wiktionary.org/w/index.php?title=वडभी&oldid=235405" इत्यस्माद् प्रतिप्राप्तम्