वत्सलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वत्सलः, त्रि, (वत्से पुत्त्रादिस्नेहपात्रे कामो- ऽस्यास्तीति । वत्स + “वत्सांसाभ्यां काम- बले ।” ५ । २ । ९८ । इति लच् ।) स्नेह- युक्तः । तत्पर्य्यायः । स्निग्धः २ । इत्यमरः । ३ । १ । १४ ॥ (यथा, भागवते । १ । ५ । ३० । “ज्ञानं गुह्यतमं यत्तत् साक्षात् भागवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥” वत्सं लाति गृह्णातीति । ला + कः । वत्स- कामुके च ॥)
वत्सलः, पुं, (वत्स + लच् ।) शृङ्गारादिदश- रसान्तर्गतरसविशेषः । तत्पर्य्यायः । वात्सल्यम् २ । इति जटाधरः ॥ (अस्य लक्षणोदाहरणे तु रसशब्दे ज्ञातव्ये ॥ * ॥ स्कन्दानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ६९ । “वत्सलो मधुवर्णश्च कलसोदर एव च ॥”)
