सामग्री पर जाएँ

वत्स्रर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वत्स्ररः, पुं, (वसन्त्यस्मिन् अयनर्त्तुमासपक्षवारा- दय इति । वस निवासे + “वसेश्च ।” उणा० ३ । ७१ । इति सरन् । “सः स्यार्द्धधातुके ।” ७ । ४ । ४९ । इति सस्य तः ।) द्वादशमासा- त्मककालः । अयनद्बयात्मकश्च । तत्पर्य्यायः । संवत्सरः २ अब्दः ३ हायनः ४ शरत् ५ समा ६ । इत्यमरः । १ । ४ । २० ॥ शरदा ७ वर्षम् ८ वरिषम् ९ संवत् १० । इति शब्दरत्नावली ॥ * ॥ “व्रतबन्धविवाहे च वत्सरपरिकल्पनमाहुरा- चार्य्याः । आधानपूर्ब्बमेके प्रसूतिपूर्ब्बं सदान्ये तु ॥” सौरसावननाक्षत्रचान्द्रभेदेन चतुर्व्विधो वत्सरः । यथा चूडोपनयनादिषु वर्षगणना सावनेन शुभाशुभगणनन्तु सौरेणेति सिद्धम् । सावनसंवत्- सरेण एकदिनाधिकवत्सरो नाक्षत्रो भवती- त्यनयोर्भेदः । सौरस्तु पञ्चषष्ट्यधिकत्रिशत- दिनैर्भवति । यथा, -- “मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् । १८७ । तुलादीनामष्टसप्तचन्द्रकन्तु लिखेत्ततः ॥” १७८ ॥ चान्द्रवत्सरोऽपि द्बादशमासैर्भवति । मलमास- पाते तु त्रयोदशमासैर्भवति । तथा च श्रुतिः । द्वादशमासाः संवत्सरः क्वचित्त्रयोदशमासाः मंवत्सर इति । त्रयोदशेत्यधिमासे । स्मृतिः । यस्मिन्नब्दे द्बादशैकश्च यव्य इति । यव्यो मास इति । यव्या मासाः स्वमेकः संवत्सर इति शतपथश्रुत्या यव्य-स्वमेक-शब्दयोर्मासवर्षपर्य्याय- उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=वत्स्रर&oldid=163620" इत्यस्माद् प्रतिप्राप्तम्