वद्रुमः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वद्रुमः, पुं, (विशिष्टो द्रुमः । यद्बा, विशिष्टो द्रुर्वृक्षोऽस्त्यस्येति । “द्युद्रुभ्यां मः ।” ५ । २ । १०८ । इति मः ।) प्रबालः । (यथा, ऋतु- संहारे । ६ । १७ । “आमूलतो विद्रुमरागताम्राः सपल्लवं पुष्पचयं दधानाः । कुर्व्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥”) रत्नवृक्षः । इति मेदिनी । मे, ५३ ॥ (यथा, रघुः । १३ । १३ । “तवाधरस्पर्द्धिषु विद्रुमेषु पर्य्यस्तमेतत् सहसोर्म्मिवेगात् । ऊर्द्ध्वाङ्कुरप्रोतमुखं कथञ्चित् क्लेशादपक्रामति शङ्खयूथम् ॥”)
