वधी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वधी, [न्] त्रि, (प्राणवियोगफलकव्यापारो वधः स निष्पाद्यत्वनिरूपितनिष्पादकत्वेना- स्त्यस्येति । बध + इनिः ।) वधकर्त्ता । प्राण- वियोगफलकव्यापारो वधः तन्निष्पादकत्वञ्च साक्षात् परम्परोदासीनं स्मृतिकारपरिगणितं वधित्वम् । तच्च पञ्चविधं स्मृतिस्वरसात् कर्त्ता प्रयोजकोऽनुमन्तानुग्राहको निमित्ती चेति । नरान्तरव्यापारव्यवधानेन वधनिव्यादकः कर्त्ता । १ । यः कर्त्तारं कारयति स प्रयोजकः । २ । स च द्विविधः । एकः स्वतोऽप्रवृत्तमेव पदातिं वेतनादिना प्रेरयति । अपरः स्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साहयति । अनु- मतिदातानुमन्ता । ३ । अनु मतिश्च द्विविधा एका यद्विरोधाद्धननं न भवति तस्य विरो- धिनो मया निरोधः कर्त्तव्य इति प्रयुक्तिरनु- मतिः । अपरा एवं हन्मीति वचने शक्तस्या- प्रतिषेध एव । अनुग्राहकोऽपि द्बिविधः । एको वध्यप्रतिरोधकः । अपरः स्वस्त्पप्रहर्त्ता । ४ । उद्देश्यत्वे सति हन्तुर्मन्यूत्पादको निमित्ती । ५ । अत्र प्रयोजकस्य कर्त्तृप्रयुक्तिद्वारेण वधकार- णत्वम् । अनुमन्तुश्च हन्तुर्निर्भयत्वेन दृढतर- प्रहारोत्पत्तिद्बारेण । अनुग्राहकस्य पलायना- द्यसम्भवेन हननीयस्थैर्य्यं कुर्व्वतः प्रहारस्वरू- पोत्पत्तिद्बारेण वा कारणत्वम् । निमित्तिनो हन्तुर्मन्यूत्पादनद्वारेणेति । प्रयोजकादीनां चतुर्णां व्यवहितहननकारणानामवान्तरभेदा- द्भेदः । अतः पञ्चविधं वधित्वम् । इति प्राय- श्चित्तविवेकः ॥
