वधोद्यतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वधोद्यतः, त्रि, (वधाय उद्यतः ।) परवधायोद्- युक्तः । तत्पर्य्यायः । सन्नद्धः २ आततायी ३ । इत्यमरः ॥ आततायिवधापवादमाह बृह- स्पतिः । “नाततातिवधे हन्ता प्राप्नुयात् किल्विषं क्वचित् । विनाशार्थिनमायान्तं घातयन्नापराध्नुयात् ॥” कात्यायनः । “आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥” जिघांसी सन् ईयात् गच्छेदित्यर्थः । देवलः । “उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ॥” भ्रूणो ब्राह्मणविशेषः । दोषदर्शनं नियमार्थम् । मनुविष्णू । “गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥” एवकारो नियमार्थः । तथा । “नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥” यस्माद्धन्तुर्मन्युर्हन्यमानमन्युं नाशयति न पुनः पुरुषो हन्ति हन्यते वेति हननविधेरपवादः । आततायिनमाह वशिष्ठः । “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥” विष्णुकात्यायनौ । “उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा । आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु ॥ भार्य्यातिक्रामिणञ्चैव विद्यात् सप्ताततायिनः । यशोवृत्तिहरानन्यानाहुर्धर्म्मार्थहारकान् ॥” विशेषमाह कात्यायनः । “अनाक्षारितपूर्व्वो यस्त्वपराधे प्रवर्त्तते । प्राणद्रव्यापहारे च प्रवृत्तस्याततायिता ॥” अनाक्षारितोऽनपकृतः । तेन पूर्ब्बकृतापरा- धस्य मारणोद्यतस्य नाततायिता । एतेन प्रत्यपकारिवधे दोष एव । ननु आततायिनो- रपि गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः । “आततायिवधे न दोषोऽन्यत्र गोब्राह्मणात् यदा हन्यात् प्रायश्चित्तं कुर्य्यात् ।” तथा भविष्ये । “क्षुण्णानामपि गोविप्रं न हन्याद्वै कदाचनं ॥” अतः पूर्ब्बवचनविरोधः । अत्र व्यवस्थामाह कात्यायनः । “आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । वधस्तत्र तु नैव स्यात् पापे हीने वधो भृगुः ॥” जन्मपदेन जातिकुलञ्चोच्यते । तेन हन्त्रपेक्षया तपोविद्याजातिकुलैरुत्कृष्टो नाततायी वध्यः तदन्यो वध्य एव । भगवद्गीतायाम् । १ । ३६ । यथा, -- “पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥” इति । एतान् भीष्मादीनत्यन्तोत्कृष्टगुणानित्यर्थः । एवम्भूताततायिनश्चाहनने फलमप्याह बृह- स्पतिः । “आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् । यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥” यद्यपि गुरुं बहुश्रुतं हन्यादिति श्रूयते तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिष्यस्या- प्युत्कर्षसम्भवादेवं बहुश्रुतादपि । एवमधमवर्णस्य उत्तमवर्णो न वध्यः पूर्ब्बापराधकृतविषयं वा सुमन्तुवचनम् । गौरातताय्यपि न वध्यः । “नखिनां शृङ्गिणाञ्चैव दंष्ट्रिणाञ्चाततायिनाम् । हस्त्यश्वानां तथान्येषां वधे हन्ता न दोष- भाग् ॥” इति कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविष- यम् ॥ विशेषमाह कात्यायनः । “उद्यतानान्तु पापानां हन्तुर्दोषो न विद्यते । निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ॥” इति प्रायश्चित्तविवेकः ॥
