सामग्री पर जाएँ

वनवर्व्वरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वनवर्व्वरिका, स्त्री, (वनजाता वर्व्वरिका ।) अरण्यजवर्व्वरी । वनवावुइ इति भाषा । तत्- पर्य्यायः । सुगन्धिः २ सुप्रसन्नकः ३ दोषा- क्लेशी ४ विषघ्नः ५ सुमुखः ६ सूक्ष्मपत्रकः ७ निद्रालुः ८ शोफहारी ९ सुवक्त्रः १० । अस्य गुणाः । उष्णत्वम् । सुगन्धित्वम् । पिशाच- वान्तिभूतघ्नत्वम् । घ्राणसन्तर्पणत्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=वनवर्व्वरिका&oldid=163752" इत्यस्माद् प्रतिप्राप्तम्