सामग्री पर जाएँ

वन्दनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वन्दनम्, क्ली, (वन्दतेऽनेनेति । वन्द + करणे ल्युट् ।) वदनम् । इति शब्दचन्द्रिका ॥ (वन्द + भावे ल्युट् ।) प्रणामः । स तु षोडशधाभक्त्यन्तर्गत- भक्तिविशेषः । यथा । पाद्मोत्तरखण्डे शिव- पार्व्वतीसंवादे । “आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः । धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥ अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा । कोर्त्तनं श्रवणञ्चैव वन्दनं पादसेवनम् ॥ तत्पादोदकसेवा च तन्निवेदितभोजनम् । तदीयानाञ्च संसेवा द्वादशीब्रतनिष्ठता ॥ तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः । भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये ॥” इति हरिभक्तिविलासे ११ विलासः ॥ षोडशोपचारपूजान्तर्गतशेषोपचारः । यथा, -- “आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । मधुपर्काचमनस्नानवसनाभरणानि च । गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ॥” इत्याह्रिकतत्त्वे आचारचिन्तामणिः ॥ * ॥ अथ वन्दनम् । “प्रणमेदथ साष्टाङ्गं तन्मुद्राञ्च प्रदर्शयेत् । किञ्चान्यत्र । “अग्रे पृष्ठे धामभागे समीपे गर्भमन्दिरे । जपहोमनमस्कारान् न कुर्य्यात् केशवालये ॥” अपि च । “सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः । उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥ ततः प्रदक्षिणां कुर्य्यात् भक्त्या भगवतो हरेः । नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द- नाम् ॥” इति हरिभक्तिविलासे ८ विलास ॥ * ॥ अन्यत् नमस्कारशब्दे प्रणामशब्दे च द्रष्टव्यम् ॥ (विषविशेषः । यथा, ऋग्वेदे । ७ । ५१ । २ । “यद्विजामन् परुषि वन्दनं भुवत् ॥” असुरः । रक्षोविशेषः । इति ऋग्भाष्ये सायणः । ७ । २१ । ५ ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

वन्दनम् [vandanam], [वन्द्-ल्युट्]

Salutation, obeisance.

Reverence, adoration.

Obeisance paid to a Brāhmaṇa &c. (by touching his feet).

Praising, extolling.

A cutaneous eruption, scrofula.

ना Worship, adoration.

नी Worship, adoration.

Solicitation.

A drug for reviving the dead.-Comp. -माला, -मालिका a garland suspended across gateways.

"https://sa.wiktionary.org/w/index.php?title=वन्दनम्&oldid=237615" इत्यस्माद् प्रतिप्राप्तम्