वन्दाकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वन्दाकः, पुं, वृक्षोपरिवृक्षः । वा~दा इति हिन्दी भाषा । तत्पर्य्यायः । पादपरुहा २ शिखरी ३ तरुरोहिणी ४ वृक्षादनी ५ वृक्षरुहा ६ काम- वृक्षः ७ शैखरी ८ केशरूपा ९ तरुरुहा १० तरुस्था ११ गन्धमादनी १२ कामिनी १३ तरुभुक् १४ श्यामा १५ उपदी १६ । अस्य गुणाः । तिक्तत्वम् । शिशिरत्वम् । कफपित्त- श्रमापहत्वम् । वश्यादिसिद्धिदत्वम् । वृष्यत्वम् । कषायत्वम् । रसायणत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वन्दाकः स्याद्धिमस्तिक्तः कषायमधुरो रसे । मङ्गल्यः कफवातास्ररक्षोव्रणविषापहः ॥” इति भावप्रकाशः ॥
